________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
g.
धाहकल्पः।
[२ का.]
देवानामावाहने यवानामिव पितृणामावाहनेऽपि तिलानामादानस्य ॐकारकरणस्य चोचितत्वात् । परतस्तिलविकरणस्य सूत्रणाच्चैवमवगच्छामः ।. "तिलानादायोङ्कारं कृत्वाऽथ पिढनावाहयिष्यति पृच्छति" इति तत्वकारपाठे व्यकोऽयमर्थः । च्छन्दोगापरसूत्रेऽप्येवमेव सूत्रपाठः । पिहन, इत्याधुपादानात् पिढनावाहयिव्ये, इत्येव वक्रव्यम्, न तु तेषां नामगोत्राद्युल्लेखः, इत्युक्तप्रायम् ॥०॥ ४ ॥०॥
आवाहयेत्यनुज्ञातउशन्तत्वा निधीमह्यशन्तः समिधीमहि उशन्नुशत आवह पितॄन् हविषे अत्तवे, एत पितरः सोम्यासोगम्भीरेभिः पथिभिः पूर्बिणेभिदत्तास्मभ्यं द्रविणेह भद्र रयिञ्च नः सर्ववीरं नियच्छत, आयन्तु नः पितरः सोम्यासेोऽग्निस्वात्ताः पथिभिर्देवयानैरस्मिन् यज्ञे स्वधयामदन्तोऽधि ब्रुवन्तु तेऽवत्वस्मानिति ॥५॥
'इति' एतैमन्त्रः, पिहनावाहयेत्, इति सूत्रशेषः । अत्रच, ‘एत पितरः, इत्यनन्तरं उशन्तस्वेति मूलभूतगोभिलग्टह्ये तझाय्यदये च पिटदयितायाञ्च लिखितेन मैथिलानामेतद्विपरीतलिखनं हेयम्'इति तत्त्वकारेणकम् । वयन्तु मूलभूतश्राद्धकल्पे उशन्तस्त्वेत्यनन्तरमेव एत पितरति मन्त्रं पश्यामः । तद्भाव्यकृता महायशसाऽपि सथैव क्रमेण मन्त्रावेतौ पठितौ। ग्टह्ये च गोभिलीये न खल्वावाहनं सूचितं न वैतौ मन्तौ पठितौ,-इति ॥०॥ ५ ॥०॥
For Private and Personal Use Only