________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२का.]
श्राद्धकल्पा
दानेऽपि संबोधनविभत्तया वाक्यरचना प्राप्नोति?। सत्यं प्राप्नोति, 'पिढभ्यति दत्तेषु'-इति कात्यायनीयविशेषवचनानुरोधात्तु नैवं क्रियते । न हि सामान्यवचनव्यपाश्रयेण विशेषवचनमुपरोद्धव्यं भवति । यदाहवनीयादौ हि सामान्यस्य विशेषपरत्वमुक्तम् । न सामान्यव्यपाश्रयेण विशेषस्योपरोधः। ‘पदार्थान्तरमाकाङ्क्षविशेषमपहाय तदितरत्र सामान्यमन्वेति'-इति भवानेवाह । अपिच । स्नानसूत्रपरिशिष्टकारः खल्वासनादौ संबोधनविभकि नोपदिदेभ, किन्वादावेव । कथं ज्ञायते ? ।
“शर्मनादिके कार्ये शमा तर्पणकर्मणि ।
शर्मणोऽक्षय्यकाले तु कर्ता एवं न मुह्यति" । इति तत्परवचने तेनैव सुव्यकमस्यार्थस्योपदेशात् । इत्यस्तु किं विस्तरेण ॥०॥ १ ॥०॥ यवानादायोङ्कारं कृत्वा विश्वान देवानावाहयिष्य
इति पृच्छति ॥२॥ घवानक्षतान् दक्षहस्तेनादाय । कुतः ? ।
"कोपदिश्यते यत्र कर्तुरङ्ग न चोच्यते ।
दक्षिणस्तव विज्ञेयः कर्मणां पारगः करः” । इति छन्दोगपरिशिष्टवचनात् । एवमन्यत्रापि । निगदव्याख्यातमन्यत् । ॐकारश्चात्र सन्ततः करणीयः । तथाच ग्टह्यासंग्रहः ।
"मन्ततः प्रणवः कार्यः पित्यज्ञेषु ब्राह्मणैः ।
उपांशकरणञ्चापि सह की ममखरैः”। इति ॥ ॥ २ ॥
For Private and Personal Use Only