________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[२ का.]
योजनया खल्वेषोऽर्थः परिचिकल्पयिषितः,-'इति उन्न प्रकारेण पितभ्योदतेषु', इति । न चैषोऽलमात्मानं पारयति, शब्दस्य श्रव
मात्रात् योऽर्थोऽवगम्यते, तं बाधित्वा । अनर्थकत्वापत्तेश्च । पानर्थक्यं खल्वेवमितिकारस्यापद्येत । कथम् ? । सृजना पाणिना कुशानां प्रदानं ख चनेनैव पूर्वमुपदिष्टम् । तदर्थं पुनरितिकरणमिति कोनाम सचेतनाऽभिदध्यात् । त्यागवाक्योपदेशपरत्वे वितिकारस्योपादानमर्थवत् स्यात्। नचार्थवत् शास्त्रमनर्थकं कर्तुमुचितम् । तस्मान्न किञ्चिदेतत् ।
यच रघुनन्दनेनोक्तम्,-'इति इत्यनेन गोत्रनामभिरामन्य इति प्रक्रस्यमानप्रकारेण पितृभ्योदतेषु', इति । तदपि न समीचीनम् । इति शब्दस्य प्रक्रान्तपरामर्शकतयैवोपपत्तौ सम्भवन्त्यां प्रक्रस्थमानपरामर्शकवस्थासम्भवात् । यथाश्रुतार्थश्चैवमुपरुध्यते । तत्रच प्रमाणं नास्तीत्यवोचाम ।
यच्चापरमुक्तम्,-'अक्षय्योदकदानेतरत्र कुशासनदानादौ सर्वत्रछन्दोगानां येचारवेति पाठः' इति । तदप्यमङ्गतम् । तत्रभवता ग्राकारेण दर्भदानमतिक्रम्य तत्र तत्र तिलोदकादिदाने विशिष्ययेचात्रत्वेतिमन्त्रस्योपदेशादासनदानादावप्रसनः । ग्टह्यकारः खल्वस्माकं तेषु तेषु बहुवेव येचाचवेतिमन्त्रमुपदिश्य कुत्रचिदेव दर्भदानादौ नोपदिदेश । अयमपि तत्र भवान् सूत्रकारोग्टह्यानुके कुत्रचित् तन्मन्त्रमुपदिशन्नपि दर्भदानादौ नोपदिशति । नचैवं मति, दर्भदानादावपि येचात्रवेतिमन्त्रपाठः, इति साध्वी कल्पना भवति ।
यदप्यमम् ,
For Private and Personal Use Only