________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
श्राद्धकल्पः ।
अनारभ्याधीता: सामान्याश्रयाविशेषाः स्वशास्त्रोक्तेऽपि प्रयोगे सन्निविशन्ते । अनन्यगतेज़चनात् । परिशिष्टकारः खल्वम्माकमेतदनुजानाति,–'विशेषाः खलु सामान्याः' इति ब्रुवाणः । पारतन्त्रिकस्य तु विशेषस्याभिनिवेशः सर्चतन्त्रविरुद्धएव । तदमे सामान्याश्रयाविशेषाः स्वशास्त्राविरोधिनएव समुच्चीयन्ते, न पुनः स्वशास्त्र विरोधिनोऽपीत्यवगन्तव्यम् ।
तेषां खल्वेषां सामान्याश्रयाणां विशेषाणामननुष्ठानेऽपि फलं भवत्येव । अनुष्ठाने पुनर्महानभ्युदयः । कथं ज्ञायते ? । परिशिष्टकारैस्तथाऽनुशिष्टेः । तथाच पुरस्तादाहृतम्,-'बकल्पं वा स्वग्टह्योकम्', इति । 'अनोवाप्यतिरिकोवा'-इति च। तदनेन अल्पेपि खशास्त्रोक्त कर्मणि कृते सर्वः कृतोभवति, इति वचनेन तावन्मात्रकरणस्योपदेशेन च अन्तरेणापि सामान्याश्रयानां विशेषाणामनुष्ठानं फलसिद्धिर्विज्ञायते । मदनपारिजातोऽपि,-"असमर्थश्चेत् स्वग्टह्योतमात्रमेव करोति, तावतैव तस्य शास्त्रार्थमिद्धेस्तत्वात्”इति ब्रुवन्नेतदेवाह । अशक्यञ्च सर्वेषां सामान्याश्रयाणां विशेषाणामनुष्ठानम् । विक्षिप्ताः खल्वेते भूयःसु प्रदेशेषु प्रभृततराश्च भवन्ति, न शक्यन्ते सामस्त्येन ज्ञातुमनुष्ठातुञ्च । न चाणक्यमर्थं क शास्त्रमस्मान् प्रेरयति। तथा मति तदेव न प्रमाणं भवेत् । विलुप्यन्ते किल कालवशाच्छास्त्राणि, इत्यपि स्मारोभवन्ति । तदेवं मामान्याश्रयाणं विशेषाणामननुष्ठानेऽपि फलमिद्धिर्भवतीति स्थितम् । अनुष्ठाने त्वमीषामभ्युदयविशेषोऽपि विज्ञायते। कुतएतत् ? । यतमोषामप्यनुष्ठानाय शास्त्रमस्मान् प्रयुके। न हि तस्थानुष्ठानाय शास्त्र
For Private and Personal Use Only