________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०४
श्राइकख्यः।
[१ का.]
"निमन्त्रयीत पूर्वेद्युः सम्यग्विप्रान् यथोदितान् ।
असम्भवे परेधुवा ब्राह्मणस्तान् निमन्त्रयेत्” । इति ।
"श्वः कोऽस्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् । निरामिषं मक्कडत्वा सर्वसुप्तजने ग्रहे।
असम्भवे परेवी ब्राह्मणस्तान् निमन्त्रयेत्” । इति चैवमादि। द्रव्याद्युपपत्तेस्तु भाविन्याः पूर्वंद्यनिश्चयासम्भवेन तदहरेव निमन्त्रणं भवति । एतेन,
"पूर्वेचुरपरेधुर्वा श्राद्धकर्मण्युपस्थिते ।
निमन्त्रयीत अवरान् सम्य विप्रान् यथोदितान्” । इत्याद्याः स्मृतयोऽपि व्याख्याताः । 'असम्भावितमैथुनान् यत्यादींस्तदहरामन्त्रयेत् अङ्गानां प्रधानकालत्वनियमात्, सम्भावितमैथुनांस्तु पूर्वंद्युः' इति नीलाम्बरोपाध्यायाः । वचनमप्युदाहरन्ति ।
"निमन्त्रयेच्च पूर्व्वद्युः पूर्वानांस्तु द्विजोत्तमान् ।
अप्राप्तौ तद्दिने वाऽपि हित्वा योषित्प्रसङ्गिनम्"। इति । महायशमाऽप्येषैव व्यवस्था वर्णिता। प्रमाणभावात् पुनरुपेक्षिताऽस्माभिः। अनिर्दिष्टकालं खल्वङ्ग प्रधानस्य काले क्रियते । निर्दिष्टश्चेह कालः । वचनमपि पूर्वारप्राप्ती तद्दिने निमन्त्रणमाह, न प्राप्ता। तत्रैव, 'हित्वा योषित्प्रसङ्गिनम्' इति विशेषः। म खल्वयं विशेषो न यतिवेवावतिष्ठते। प्रमाणविशेषाभावात् । तस्मादस्मदुक्तंव व्यवस्था शास्त्रार्थः ॥ ॥ ५ ॥०॥
For Private and Personal Use Only