________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः।
[१ का.]
"ब्रीहिपाके च कर्त्तव्यं यवपाके च पार्थिव! ।
न तावाद्यौ महाराज ! विना श्राद्ध कथञ्चन" । इति च स्मर्यते पुराणेषु। तदनेन नवशस्यादिप्राप्तिः श्राद्धनिमित्तमित्युक्तं भवति । नवान्नेन कानुष्ठानं निमित्तम्, इत्यसङ्गतैषा कल्पना । प्रमाणभावात् ।
"नक्षत्रग्रहपीड़ासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्वीत नवशस्थागमे तथा" । इति पुराणवाक्येऽप्यागमस्य प्राप्तिरूपत्वात् ।
"वृश्चिके एक्लपक्षे तु नवान्नं शस्यते बुधैः” । इति कालान्तरन्त्वन्येषां मन्तव्यम् । कस्मात् ? । 'धान्यपाकवशादन्ये' -इति नवयज्ञे तथा दर्शनात् । अन्ये खल्वाचार्याः धान्यान्तरपाकवभादपि नवयज्ञमिच्छन्ति। शालयः किल वृश्चिके पच्यन्ते । रघुनन्दनस्तु नवशस्येटिदृष्टपरिकल्पनां श्राद्धेऽभ्युपगच्छन्नप्याए । 'वृश्चिकालपक्षो न कालान्तरं किन्वतिपतितब्रीहिश्राद्धस्थ गौणकालमध्ये तस्य प्राशस्त्यमात्रम्' इति । देशसम्पत्तिस्तीर्थप्राप्तिरूपा। कथं ज्ञायते ?।
"गत्वैव तीर्थं कर्त्तव्यं श्राद्धं तत्प्राप्तिहेतुकम् ।
पूर्वाहेऽप्यथवा प्रातर्देशे स्थात् पूर्वदक्षिणे"। इत्यादिवचनेभ्यः । पात्रसम्पत्तिः श्रोत्रियब्राह्मणप्राप्तिरूपा । कुतः ?।
"तस्मात् दद्यात् मदोद्युकोविद्वत्सु ब्राह्मणेषु च । इत्यादि स्मरणात् । तदेतासु द्रव्यदेशपात्रोपपत्तिषु यत् श्राद्धं, न तत्र कृष्णपक्षाद्यपेक्षा अवश्यं कर्त्तव्या । कथं ज्ञायते? । यदहरमीषामुपपत्तिस्तदहः श्राद्धविधानेन तदसम्भवात् । स्मरन्ति च ।
For Private and Personal Use Only