________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
श्राद्धकल्पः।
इति । तथा नारदः।
"सचन्महालये काम्ये पुनः श्राद्धेऽखिलेषु च ।
अतीतविषये चैव सर्वमेतत् विचिन्तयेत्” । इति मन्महालयं दर्शयति । एतत्, इति नन्दादिवर्जनम्। तथा कात्यायनः।
"अशकः पक्षमध्ये तु करोत्येकदिने यदा ।
निषिद्धेऽपि दिने कुर्यात् पिण्डदानं यथाविधि" । इत्येकदिनेऽपि करणं सुस्पष्टमुपदिशति । तदत्र अपरपक्षश्राद्धे बहुवक्रव्यमस्ति । ग्रन्थगौरवभयादुपारम्यतेऽस्माभिः ।
अथैवमपरपक्षस्य पारिभाषिकवे कृष्णपक्षमात्र श्राद्धकालो न सूत्रितं भवति ?। माभूदनेन ग्रन्थेन, सूत्रयिष्यते तु ॥०॥ ३ ॥०॥
यदहरुपपद्येत ॥ ४॥ यदव्यदेशपात्रमुपपद्येत, तदहः पिटभ्यो दद्यात् । तथाच गौतमसूत्रम् । “द्रव्यदेशब्राह्मणमन्निधौ वा” इति। द्रव्यसम्पत्तिरच नवशस्यादिप्राप्तिरूपा । स्मरन्ति च।
“यष्टव्याः पितरोराजन् ! नवशस्यफलोदकैः ।
पावणेन विधानेन खड्गमांसे तथाऽऽगते” । इति । नवशस्यमपि ब्रीहियवरूपं द्रष्टव्यम् । कुतः ?। नवयज्ञे तथा दर्शनात् । तथाच च्छन्दोगपरिशिष्टम् ।
"परदसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।
धान्यपाकवशादन्ये श्यामाकावनिनः स्मृतः” । इति ।
For Private and Personal Use Only