________________
Shri Mahavir Jain Aradhana Kendra
६००
www.kobatirth.org
[१ का. ]
इति । इदञ्च षोड़शत्वमाश्विन शुक्लप्रतिपदा सह द्रष्टव्यम् । कथं
ज्ञायते ? |
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
इति । वृद्धमनुः ।
" श्रहः षोड़शकं यत्तु शुक्लप्रतिपदा सह । चन्द्रयाविशेषेण साऽपि दर्शात्मिका स्मृता"।
दूति देवलवचनात् । कन्यां गते सवितरि - इति कन्यासम्बन्धस्य प्राशस्त्यमभिप्रेत्येोक्तम् । तदाह शाय्यायनिः ।
" कन्यास्थाकीन्वितः पक्षः सोऽत्यन्तं पुण्य उच्यते” ।
" मध्ये वा यदि वाऽप्यन्ते यत्र कन्यां व्रजेद्रविः । स पक्षः सकलः श्रेष्ठः श्राषोड़शकं प्रति" ।
दूति । एवञ्च 'कन्यां गच्छतु वा नरा' - इति समस्त पक्षाभिप्रायं वचनं भवति । ब्रह्मपुराणवचने, 'एववा' - इति निपातसमुदायो विकल्पवाची । 'एवच' - इति यथा । न तु एवशब्दो नियमार्थः, वाशब्दो विकल्पार्थः - इति निपातद्वयम् । विभागकरणे, 'श्रर्द्धमेव' -इति नियमानुपपत्तेः । श्रतएव सकृत्करणमप्याह नागरखण्डम् । " श्राषायाः पञ्चमे पने कन्यासंस्थे दिवाकरे । यो श्राद्धं नरः कुर्य्यादेकस्मिन्नपि वासरे ।
इति । एकस्मिन्नपि - इत्यपिकारादनुकल्पोयम् । न चैतत् कन्यास्थारवि निमित्तश्राद्धपरं वचनम् । एकस्मिन्नपि - इत्यपिकारलभ्यस्यानेकत्रकरणस्य तत्राभावात्। सकृद्धि तत्करणमिय्यते । तथाच गर्गः । “पचश्राद्धं यदा कुर्य्यात्तर्पणन्तु दिने दिने । सकृन्महालये चैवं परेहनि तिलोदकम् ” ।
For Private and Personal Use Only