________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४
श्राद्धकल्पः।
[१ का.]
श्राद्धविधानेन च विशिष्टविधित्वानुपपत्तेः” इति । तदिदमनाई कपोलकल्पितञ्चेत्युपेक्षणीयम् । ___ तस्मात् , नेदं कृष्णपक्षनिमित्तश्राद्धस्य प्रशस्तकालाभिप्रायं सूत्र वर्णनीयम् । अमंशब्दितत्वात् । प्रमाणभावाच्च । इत्यास्थेयम् ।
पिटभ्यः, इति चतुर्था पितॄणामत्र देवतात्वम् । तथाचापस्तबरखत्रम् । “तत्र पितरोदेवताः” इति। देवतात्वन्तु देशनादेशितचतुर्थन्तपदनिर्देण्यत्वं वेदमेयत्यागोद्देश्यत्वं वा, इत्यन्यदेतत् । तस्मात्,यागोऽयम् । “यजतिचोदना द्रव्यदेवताक्रिय समुदाये कृतार्थत्वात्" -दति जैमिनिसूत्रात् । ददातिप्रयोगश्च गौणः । उद्देश्यगतस्वामित्वजनकस्त्यागोहि दानम्। न च पित्रादीनां खामित्वमस्ति । ब्राह्मणस्थेति चेन्नानद्देश्यत्वात् । इति चेत् पश्यसि,-माभूत् पित्रादीनां स्वामित्वं ब्राह्मणस्य तु भविष्यति, इति। तदपि नास्ति। कस्मात् ? । अनुद्देश्यत्वावाह्मणस्य । कथं पुनरनुद्देश्यत्वं ब्राह्मणस्य ? । प्रमाणाभावात् । पितृणामेव तथात्वापदेशाच। तथा आपस्तम्वोऽपि । "ब्राह्मणाश्चाहवनीयार्थ"-इति सूत्रयन् अनुद्देश्यत्वं स्वामित्वाभावञ्च ब्राह्मणानां दर्शयति । यथा खल्वाहवनीयोऽगिरनुद्देश्योऽपि प्रतिपत्तिस्थानं देवतोद्देशेन त्यकस्य द्रव्यस्य, एवमिहापि पितरएवोद्देश्याः ब्राह्मणास्तु प्रतिपत्तिस्थानमेव परं न पुनरुद्देश्याः, इति । त्यागोऽयं ब्राह्मणस्य स्वामित्वमुत्पादयतीत्यत्रापि न प्रमाणम् । पित्रुद्देशेन त्यकस्य खल्वस्वामिकतया ब्राह्मणे तस्य प्रतिपत्तौ उपादानमेव हि तस्य खामित्वमुत्पादयेत् , नासौ त्यागः प्रामाणाभावात्, इति लिप्यते । न हि भवन्ति वतारः,-पितॄणां श्राद्धमितिवत् ब्राह्मणानां श्राद्ध
For Private and Personal Use Only