________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ का.]
श्राद्धकल्पः।
"अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम् ।
श्राद्धं माधारणं नाम भुक्रिमुनिफलप्रदम्" । इत्यादिना, “एतच्चानुपनीतोऽपि”-इत्याद्यन्तेन ग्रन्थेन अमिमतामननिमताञ्च साधारणं श्राद्धं परस्मिन्नध्याये समुपदिष्टम् । अतएव, 'अग्निमत्श्राद्धम्'-दति, ‘साधारणाभ्युदयकीर्त्तनम्'-इति चेतावध्यायावाचक्षते । तात्पर्य्यभेदकल्पनारसिकोरघुनन्दनस्वेतदजानानः कण्ठोक्कमपि साधारणत्वच्चान्यथयन् ,-'श्रमावस्थायां यन्नित्यत्वाभिधानं तत्साग्निपरं कृष्णपक्षस्य यन्नित्यत्वाभिधानं तत्सामिभिन्नस्य'इत्यतत्त्वमेवाईजरतीयं ब्रुवन् तत्त्वप्रवक्तारञ्चात्मानं ख्यापयन् नापनपते । तथा मार्कण्डेयपुराणम् ।
“कार्यं श्राद्धममावास्यां मासिमास्युडुपक्षये ।
तथाऽटकाखप्यवश्यमिच्छाकालं निबोध मे" । इति । उडुपक्षयोऽमावस्या । सायं निमित्तकालयोरभेदोनित्यतामस्थ सूचयति । एतदपि तत्रैव सुव्यक्तमुक्तम् ।
"दर्शस्तत्र निमित्तं वै कालचन्द्रक्षयात्मकः ।
नित्यतां नियतः कालस्तस्याः संखचयत्यथ" । इति। चन्द्रक्षयात्मकः कालोऽपि दर्शएव । अतएव, यदेव निमित्तं मएव काल:-इति निमित्तनियतः कालस्तस्य नित्यता सूचयति,इत्याह । अपरे पुनरेतदविद्वांसोव्याचक्षते,-"मासि मासि कार्य यत् श्राद्धं तत् चन्द्र क्षयेऽमावस्यां प्राप्यातिप्रशस्तम् । चन्द्रक्षयाभावेऽपि वर्द्धमानायां श्राद्धविधानेन अमावस्याऽभावेऽपि चतुर्दश्यन्तयामे
For Private and Personal Use Only