________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
eded
ह्यासंग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
नैकस्मिन् कर्मणि तते कमन्यत्तायते यतः” । इति । यदि समुच्चयं कात्यायनोऽभिप्रेष्यत्, नूनमवदिष्यत् । श्रवदनाच्चावगच्छामः, – नैष समुच्चयः कात्यायनस्याभिप्रेतः, -- दूति । तस्मादियमेवावधारणा, - श्रीतेषु पारशाखिकं सामान्यञ्च विधानं कर्त्तव्यम्, गृह्येोक्तेषु तु पारशाखिकं न कर्त्तव्यमेव, सामान्यञ्च विधानं गृह्येोक्तविधानानुष्ठानादनन्तरमिच्छया प्रयोगान्तररूपेण करणीयम् इति । तदेवं सति “प्रयोगशास्त्रम्" - इत्यादीनि वच - नान्यनुग्टहीतानि भवन्ति नान्यथा । श्रौतेषु च तासु तासु शाखासु तत्तत्शाखिनामेवर्त्विजां कभीपदिष्टं न सर्व्वेषाम् सर्व्वशाखिभिश्चविग्भिः प्रायोयो निर्व्वहति, न तावन्मात्रैः - इति विशेषोऽप्यस्ति । श्रन्येपि विशेषा: शाखान्तराधिकरणे शारीरके च द्रष्टव्याः' ।
,
[२ प्र. ]
रघुनन्दनस्त्वेतदबुद्ध्वा वचनञ्चाजानानः, – 'सर्व्वत्रैवाविशेषेणाकाचितं पारशाखिकं करणीयं न श्रनाकाङ्क्षितम् - इति स्वरुच्चैव कल्पयाञ्चकार । तदश्रद्धेयम् । श्राकाङ्क्षाऽपि तदभिप्रेता न प्रामाणिकी । यत्र हि यावती इतिकर्त्तव्यता निर्दिष्टा तत्र ततएव श्राकाङ्क्षा निवर्त्तते - विशेषहेतुं विना – इति हि तान्त्रिकानां निर्णयः । श्रवश्यञ्च तेनाप्येतद्वक्तव्यम् । अन्यथा पारशाखिकगुणेोपसंहारेप्याकाङ्क्षा न निवर्त्तेत । इत्यस्तु किं विस्तरेण ॥
-
पुनरुक्तमतिक्रान्तं यच सिंहाबलाकितम् । गौभिले ये न गृह्णन्ति न ते ज्ञास्यन्ति गौभिलम् ॥
॥ ९४ ॥
For Private and Personal Use Only