________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
एह्यासंग्रहः।
८८७
पुनरुक्तम्-उकस्य पुनःकथनम् । अतिक्रान्तम्-अतिक्रम्य संबन्धः व्यवहितयोजना इति यावत्। यच्च सिंहावलोकितम्-सिंहावलोकितन्यायेन पराचीनस्य पूर्वत्रान्वयः । ये खल्वेतत् त्रयं गौभिलेगोभिलग्टह्यशास्त्रे न ग्टतान्ति, ते गोभिलग्टह्यशास्त्र तत्त्वता न ज्ञास्यन्ति । उदाहरणममीषां ग्टह्यसूत्रादस्मतकृततद्भाव्याञ्चोपलअव्यम् । विस्तरभयान्नेह प्रस्तूयते ॥ एततशास्त्राध्ययनफलमाह,
गोभिलाचार्यपुत्रस्य योऽधीते संग्रहं पुमान् । सर्वकर्मस्वसंमूढः परां सिड्निमवाप्नुयात् ॥ ६५ ॥
गोभिलाचार्यपुत्रस्य संग्रहमिमं ग्टह्यासंग्रहाख्यं यः पुमानधीते, स खल्वयं सर्वकर्मसु ग्टह्योनेषु असमूढ़ः मोहरहितः परामुत्कृष्टां सिद्धिं प्राप्नोति ॥
अत्रैव शिवम् ॥
श्लोकाः-८५ श्रादितः श्लोकाः-२०८॥
कैकयेषु वसता दिजन्मना तन्त्रजालमवलोक्य निर्मितम् । जीरन्धमणिचन्द्रसमिते वत्सरे वृषगते रवाविदम् ॥ १ ॥
For Private and Personal Use Only