________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२]
ग्टह्यासंग्रहः।
प्रयोगशास्त्रम्-इत्यादि । किमिवहि वचनं न कुर्यात् । नहि वचनस्य कश्चिदतिभारोनाम । भवदीयेऽपि पक्षे न्यायान्तरविरोधोजागर्ति । न च पदार्थोऽपि पूर्वसिद्धः । सिसाधयिषितः खल्वेष भवता । विषमश्चायमुपन्यासः । सर्वपदार्थानां शेषभूताः खल्वाचमनादयः प्रावल्यादनुष्ठीयन्ते, न सङ्घ । नचात्रानुतिष्ठासितानां शेषत्वं प्रामाणिकम्।
भिन्नानि चेमानि कर्माणि प्रयोगशास्त्रीयाणि सामान्यानि च नाम साम्येऽपि, यथासम्भव रूपभेदादिभ्योहेतुभ्यः । संयोगचोदनाभेदमप्येतेषु बहुलमुपलभामहे । तत्रैवंसति कुत्र कस्य गुणानुपसंहरसि । कर्मभेदे गुणोपसंहारन्यायस्याविषयात् । श्राद्धोसि चेत्, प्रयोगशास्त्रीय विधानमनुष्ठाय यथासम्भवं सामान्यमपि विधानं काम पृथगेवानुतिष्ठ । किमित्युभयमपि विधानमन्यथयित्वा नरसिंहाकारमभिनवं विधानान्तरं खरुच्यैव निर्मिणेषि । यथा खल्वेकस्माद्दाक्यादाख्यातपदमन्यस्माच्च नामपदं ग्टहीत्वा योवाक्यार्थः सम्पद्यते पुरुषकल्पनामूलः, तादृशोह्ययं परिचिकल्पयिषितः प्रयोगोभवति । स खल्वनपेक्षणीयस्तत्रभवताम् । तथाचोकम् । “धर्मस्य शब्दमूलत्वादशब्दमनपेतं स्यात्” इति । अतएव स्वशाखाश्रययोर्वैश्वदेवबलिकर्मणोरन्ते सामान्ययोरपि तयोः काममनुष्ठानं कात्यायनः स्मरति कर्मप्रदीपे,___. “न स्यातां काम्यसामान्यजुहोतिबलिकर्मणी। .
पूर्वं नित्यविशेषोतजुहोतिबलिकर्मणः । काममन्ते भवेयातां न तु मध्ये कदाचन ।
For Private and Personal Use Only