________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
cc8
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
[२ प्र.]
,
वयमुपालभ्येमहि' । 'न युनानुपालभामहे, किन्तु, माभूदनर्थ - कमिति तदपि समुच्चिनुमः, -इति ब्रूमहे ' । 'निरङ्कुशत्वात्ते तुण्डस्यैवं ब्रवीषि न तु प्रमाणोपेतं ब्रवीषि । प्रयोगशास्त्रविरोधाद्धि नायं समुच्चयः सेडुमईति । योहि सामान्यस्यविधानस्यानर्थक्यं परिजिहीस्तदपि समुच्चिनाति स खल्वयं स्वशास्त्राचार्य्यमृषिं प्रमाणं सन्तमप्रमाणं करोति । क्रममपि प्रयोगशास्त्रीयं विरुणद्धि । उत्सृजति च स्वशाखाश्रयं विधानम् । सेयं पितरमुपेच्य श्वरे गाढ़ा भक्तिः । कात्यायनेाऽपि -
1
" स्वशाखाश्रयमुत्सृज्य परशाखाश्रयन्तु यः । कर्त्तुमिच्छति दुर्मेधा मोघं तत्तस्य चेष्टितम्” ।
इत्यनेन एनं निन्दति । येोहि ऋषिभिर्निन्द्यते, स कथं श्रद्धेयस्तत्र भवतां शिष्टानाम्' । 'अथ यथोभयमपि न विरात्स्यते, तथा करिव्यामः' । ‘नैवं शक्यम्’। 'कस्मात् ?' | 'असम्भवात् । स्वशाखाश्रयस्य खन्वन्तराऽन्तरा किमपि किमपि सामान्यं विधानं निवेशयन् सामान्यमपि विधानमाकुलयति स्वशाखाश्रयमपि । सायं समुच्चयो न प्रयोगशास्त्रं नापि सामान्यं विधानमुपकरोति क्रममन्यथयन् प्रधानमपि विगुणयति । तथाच वृद्धिमिष्टवतो मूलमपि नष्टम्' । 'अथ, क्रमः पदार्थानामुपकारे वर्त्तते । पदार्थप्राप्तेरुत्तरकालं हि क्रम श्रपतति । यदा च पदार्थः प्राप्नोति तदा क्रमएव नास्ति । न खलु पश्चिमसिद्धेन क्रमेण विरोधात् पूर्वंसिद्धः पदार्थएव न कर्त्तव्योभवति । तस्मात्, न्यायविरोधस्त्वत्पते दोष:' । 'भवेदेतदेवम्, - यदि वचनमचार्थे प्रमाणं न स्यात् । अस्ति च वचनम् -
For Private and Personal Use Only