________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र
ह्यासंग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
इदमिदानीं सन्दिह्यते । एवन्तावत्- 'श्रात्मतन्त्रेषु यन्नोक्रम् - इत्यनेन पारतन्त्रिकमपि कर्त्तव्यतयोपदिष्टम्, 'ऊऩोवाप्यतिरिक्रोवा' — इत्यनेन ‘यः स्वशाखोक्तमुत्सृज्य' – इत्यनेन च पुनरेतन्निषिद्धम्, किं पुनरत्र तत्त्वम् । उभयं तत्त्वमित्याह । कुत: ? । उभयोरेवोपदेशात् । विरुद्धं तर्हि ? | न । विषयभेदात् । कथम् ? । उच्यते । 'आत्मतन्त्रेषु यत्रोक्तम्' - इति तावत् श्रौताभिप्रायम् । 'जनेोवा'इत्यादिकन्तु ग्टह्यशास्त्राभिप्रायकम्; इति विषयभेदादुभयं तत्त्वमिति निश्चीयते । कथं पुनर्झीयते ; - गृह्यशास्त्राभिप्रायेणोत्तरः पक्षः - इति ? । पारिशेष्यादिति ब्रूमः । श्रौताभिप्रायेण पूर्व्वः पक्ष इति खल्वबोचाम । तस्मादुत्तरः पक्षः पारिशेष्यागृह्यशास्त्राभिप्रायेण भविष्यति ।
इतचैतदेवं भविष्यति, — श्रप्रमाणमृषिं कृत्वेत्यभिधानात् । नो खल्वपि श्रतेषु पारशाखिकमाचरन् ऋषिमप्रमाणं करोति । न खल्वृषिः कती वेदस्य । नित्यो हि वेदराशिर्मीमांसकानाम्, अपौरु यश्चान्येषाम् । 'प्रवक्तेतिचेत्, - इति चेद्भवान् पश्यति ; माभूत् कती ऋषिर्वेदस्य, प्रवक्ता तु भवति' । 'भवतु, किमतो भवति ?' | 'एतदता भवति, यद्येवं श्रतेय्वपि पारशाखिकमाचरन् प्रवक्तारम्टषिमप्रमाणं करोति' । ‘नैतत् साधु मन्यामहे । पूर्व्वसिद्धां हि वाचम्टषिः प्रोवाच । पारशाखिकञ्चाचरन् तामेव वाचमप्रमाणं करोति, न ऋषिम्। न वा, नित्यनिर्देषस्य पूर्व्वसिद्धस्य वेदस्य श्रप्रामाण्यमनुपन्यस्य परसिद्धस्य प्रव धेरप्रामाण्यं युक्तमुपन्यसितुम् । तदधीनसिद्धत्वात्तस्य । ग्टह्यशास्त्राभिप्रायत्वे तु वाक्यस्यैतत् स्यात् । वेदार्थ
S
·
For Private and Personal Use Only