________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
सह्यासंग्रहः।
८८१
सामान्याः-समानकम्माश्रयाः ये विशेषाः वेदवादिभिरुताः, ते च करणीयाः । तदनेन,-माखान्तरीयगुणानामपि शाखान्तरे उपसंहारः कर्त्तव्यः-इत्युक्तं भवति । तथाच ग्रह्यपरिशिष्टान्तरम् ।
"श्रौतेषु सर्वशाखोतं सर्वस्यैव यथोचितम्" । इति । सेयं शाखान्तराधिकरणन्यायमूला स्मृतिरिति द्रष्टव्यम् । किं भवति तर्हि प्रयोजनं पूर्वार्द्धस्य ? ननु परार्द्धनैव गुणेपसंहार उपदिष्टः । उच्यते । यदात्मतन्त्रे उपदिष्टं तत्र परतन्त्रोक्तगुणोपसंहारः परार्द्धस्यार्थः । यत् पुनर्नोपदिष्टमेवात्मनस्तन्त्रे, तदपि परतन्त्रोतं करणीयमिति प्रयोजनं पूर्वार्द्धस्य । यथा खल्वग्निहोत्रमसमछाखायां नोपदिष्टं, तदपि याजुर्वेदिकमनुष्ठीयतेऽस्माभिः । तदेतत् परिशिष्टकृतः कात्यायनस्य वचनसंवादेनावधार्यते । तच्चोदाइरिय्यामः ॥
जनावाऽप्यतिरिक्तोवा यः स्वशास्त्रोक्तमाचरेत् । तेन सन्तनुयात् यज्ञं न कुर्यात् पारतन्त्रिकम् ॥१२॥ खशास्त्रे न्यूनोवा अधिको वा योविधिरक्ताः तं स्वशास्त्रोक्त विधिमाचरेत् । तेनैव यज्ञं विस्तारयेत् । परतन्त्रोक्तं न कुर्यात् ॥
यः स्व शाखाक्तमुत्सृज्य परशाखक्तमाचरेत् । अप्रमाणमृर्षि कृत्वा सेोऽन्धे तमसि मज्जति ॥१३॥
यः पुनः स्वशाखोकं त्यक्त्वा परशाखोतमाचरति, स खल्वयम्मृषि खशाखाचार्य्यमप्रमाणं करोति । स खल्वृषिमप्रमाणं कृत्वा अन्धे तमसि-नरके पतति ।
T
For Private and Personal Use Only