________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्टह्यासंग्रहः।
[२ प्र.]
वा । सोमादीनां पृथगपन्यासेविशेषविवक्षया भविष्यति । मित्रावरुण, इति देवताबन्दे दीर्घः ।।
आत्मतन्त्रेषु यन्त्रोक्तं तत् कुर्यात् पारतन्त्रिकम् । विशेषाः खलु सामान्याये चोक्ता वेदवादिभिः॥१॥ तन्त्र शास्त्रमित्यनान्तरम् । श्रात्मनस्तन्त्रेषु यन्नोन, तत् परतन्त्रोक कुर्यात् । ये च सामान्याः सर्वशाखिसाधारणाः, विशेषाः,
"नित्यं स्नात्वा एचिः कुर्याद्देवर्षिपिटतर्पणम्” । इति ।
“मन्तोषं परमास्याय सुखार्थी संयताभवेत्” । इति चैवमादाय, वेदवादिभिर्मन्वादिभिरुका:, ते च कर्तव्याः । एवं वाये च साधारणाविशेषाः-आचमनादयः, मन्वादिभिरुकास्तेच कर्तव्याः । तदिदं श्रौताभिप्रायं वचनम् । कथं ज्ञायते ? ।
"स्मात साधारणं तेषु ग्राह्यं श्रौतेषु कर्मसु"। इति ग्रह्यपरिशिष्टान्तरदर्शनात् । एवं वाये च सामान्याः साधारणा:-परिभाषारूपाः इत्येतत् । विशेषाः"उच्चैर्ऋचा क्रियते उच्चैः साना उपांशु यजुषा" इत्येवमादयः, वेदवादिभिरुक्ताः, ते च कर्त्तव्याः । वेदं वदितुं शीलं येषां तदमे वेदवादिनो वेदप्रवकारः कठादयो भण्टन्ते । न खलु तत्र भवन्तो मन्वादयो वेदवादिनः, स्मतारोहि ते वेदार्थस्य । एवं वा
For Private and Personal Use Only