________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्टह्यासंग्रहः।
[२ प्र.]
कपालान्-अन्यादृशकपालसंस्कृतानपूपान् कुर्वीत। अथवा । करतलाचतुर्भागं कपालमित्येकं वाक्यम् । तदिदं न्यूनतरकपालपरिमाणाभिप्रायं वचनम्, न पुनरतोऽपि न्यूनपरिमाणं कपालं कुर्य्यादित्ययमत्रार्थः। एवं खल्वनेन वाक्येन,-"त्रयम्बकप्रमाणान्" इति सूत्रम्
“त्रयम्बकं करतलमपूपामण्डकाः स्मृताः” । इति वचनञ्च न विरोत्स्यते । अष्टकाविधौ पृथककपालान्-नाना कपालसंस्कृतान् अपूपान् कुर्वीत, इत्यपरं वाक्यम् । तदनेन,"एककपालान्” इति सूत्रं व्याख्यातम् ।।
वपाहोमे मुखेनैवहोमे स्विष्टकृते तथा। व्यहृतीन प्रयोक्तव्या मुखे नासु च लक्षणम् ॥ ७२॥ "स्थालीपाकावृता वपामवदाय विष्टकदातावाऽष्टकायै स्वाहेति जुहोति" इति सूत्रोत वपाहोमे, मुखेन होमे-पूर्वोके, खिष्टकहोमे च, मन्त्रानादेशे प्रयोक्तव्यत्वेन पूर्वमभिहिता: व्याहतयोन प्रयोकव्याः। एषु मन्त्रस्योपदेशात्-एषु कर्त्तव्येषु एतदनुकूलं यत् किञ्चित् क्रियते, तत्र न व्याहृतिप्रयोगः, इत्ययमत्रार्थः । व्याहतीः, इत्यत्र पूर्वसवर्णोद्रष्टव्यः। “जातरूपेण वाऽऽदाय कुमारस्य मुखे जुहोति" -इत्यादिसूत्रोक्त मुखहामे, उदकहोमे च पूर्वोक्ने, लक्षणं गाभिलोक न कर्त्तव्यम् ॥
सन्ततः प्रणवः कार्याः पिढयज्ञेषु ब्राह्मणैः । उपांशुकरणञ्चापि सह कत्रा समस्वरैः ॥ ७३ ॥
For Private and Personal Use Only