________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २ प्र. ]
गृह्यासंग्रहः ।
देवत्ये चरा चतुर्णां मुष्टीनामुत्तरोऽधिकेोऽपि चरुः कर्त्तव्यः । श्रष्टका - विधौ तु कपालस्य प्रमाणेन श्रपूपान् - मण्डकान् कुर्य्यात् । मुष्टिः पलमित्यनर्थान्तरम् । बद्धपाणिः कस्मान्नोच्यते ? । श्राचार्य्यविरोधादित्याह । एवं खन्वेकदैवत्येपि च चतुर्मुष्टिकरणे श्राचार्य्यसूत्रं विरुध्येत । तथाच सूत्रम् । “मुझे त्वा जुएं निर्व्वपामीति देवताना - मादेशं सकृत् द्विस्तुष्णीम् ” – इति । तस्मात् — मुष्टिरच पलमेव, - इति प्रतिपद्यामहे । तदिदं चविः परिमाणपरं वचनम्। श्रतएव क
,
प्रदीपेऽपि -
६
"देवतासंख्यया ग्राह्या निर्व्वपाश्च पृथक् पृथक् । तृष्ण द्विरेव गृह्णीयाद्धामश्चापि पृथक् पृथक् । यावता होमनिर्वृत्तिर्भवेदा यत्र कीर्त्तिता । शेषञ्चैव भवेत् किञ्चित्, तावन्तं निर्वपेच्चरुम्" । इत्यत्र परवचनेन हविः परिमाणमेवेोक्तम्, न मुष्टिसंख्या । तस्याः पूर्व्ववचनेनैवाक्तत्वात् । ' तावन्तं चरुं निर्वपेत्' – इत्यस्यावचनव्यक्तेर्हविः परिमाणएव तात्पर्य्यवगतेश्च । तदनयोः परिमाणयोर्विकल्पो बेोद्धव्यः । द्वयोरप्यस्माच्छास्त्रोक्तत्वात् । कात्यायनोऽपि भवेद्वा' - इति वा शब्देन परिमाणान्तरं सूचयति ॥
चतुर्भागं पाणितलात् कपालं याज्ञिकाविदुः । पृथक्कपालान् कुर्व्वीत अपूपानष्टका विधौ ॥ ७१ ॥
पाणितलाच्चतुर्भागं कपालं याज्ञिकाः जानन्ति । तदिदं कपालं यज्ञ एवोपयुक्तम् । श्रष्टकाविधैा पुनर्नैतादृशं कपालं, किन्तु तत्र पृथक्
For Private and Personal Use Only