________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
[२ प्र.]
मध्वभावे घृतेन मधुपर्क ग्राह्यान्तरकाराः स्मरन्ति, भवान् पुनः खातन्यातिशयान्मन्यते,-घृतासम्भवे दधिमधुमात्रेण मधुपर्क:इत्यही प्रमादः । घृतासम्भवे वचनस्य विषयत्वे खल्वशक्तविषयमेव वचनमिति कांस्यपात्रासम्भवेपि शक्यं नेतुम्। तस्याशनविषयत्वस्य भवतामविवादात् । तत् कथमेतद्वचनावष्टम्भेन दधिमधुघृतवाक्ये श्रूयमाणस्थापि कांस्यपात्रस्योपलक्षणतां भङ्ग्यन्तरेणाभ्युपगच्छति । वाक्ययोरनयोः परस्परमसम्बन्धात् । सोऽयं भवदीयएव वाणभवन्तं प्रहरति । अपिच । साहसिकः खलु भवान् यः पारस्करीयं सूत्रं गोभिलीयमिति ब्रुवन् पारमर्षञ्च सूत्रमाकुलयन्नापत्रपते, इति किमत्र ब्रूमः ॥ अथेदानीम्-" "ग्टतमभिघार्योदगुदास्य प्रत्यभिधारयेत्”-दूति सूत्रोक्तं चरोरभिधारणं प्रत्यभिधारणञ्च व्याकुरुते,
पविचान्तर्हितं कृत्वा चरुं प्राज्ञोऽभिधारयेत् ।
उदास्य चैव विधिना एवं तन्त्रं न लुप्यते ॥ ६॥ प्राज्ञोबद्धिमान् , उदगग्रेण पवित्रेण चरुमन्तर्हितं व्यवहितं कृत्वा ; चरमध्ये उदगग्रं पवित्र निधायेत्यर्थः । अभिघारयेत्-घतत्रवेणालावयेत्। चरुमुत्तरयां दिशि उदास्य उत्तार्य च, पूर्वाननैव विधिना पुनरभिधारयेत् । एवं कृते तन्त्रमनविस्तारोन लुप्यते ॥
चतुर्मुष्टिश्चरुः कार्यश्चतुर्णीमुत्तरोऽपि वा ।
कपालस्य प्रमाणेन अपूपानष्टकाविधौ ॥ ७० ॥ चस्तन्त्रे चतुर्मुष्टिपरिमितश्चरुः कर्त्तव्यः । अपि वा,-अथवा, बहु
For Private and Personal Use Only