________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
ग्टह्यासंग्रहः।
इतिकरणादन्येश्वप्येवंविधेषु-उपाकरणादावक्षतधानाभक्षणादिषु, द्विजानोच्छिष्टोभवति । तदेतद्विशेषाभिधित्सया पुनरारम्भः । पूर्व विप्रपदोपादानात् राजन्यो श्ययोरुच्छिष्टताऽऽशङ्कापि स्यात् कस्यचिन्मन्दमतेरिति वा पुनरारम्भः । समादरार्थो वा ॥ अन्यमपि मधुपर्कमाइ,
दधनि पयसि वाऽथवा कृतान्ने मधु दद्यान्मधुपर्कमेतदाहुः । दधि मधु-सलिलेषु सक्तवः पृथगेते विहितास्त्रयस्तु मन्याः॥ ८॥
दधनि, पयसि-दुग्ध वा, कृतान्ने-ओदनादौ वा, . मधु दद्यात्क्षिपेत् । दध्यात्, इतिपाठे धारयेदित्यर्थः । एतन्मधुपर्कमाहुराचार्याः । दधि-मधु-सलिलेषु सतवादेयाः । तदमे त्रयोमन्था भवन्ति ;-दधिमन्थः, मधुमन्यः, उदमन्थश्च, इति । तदिदम्"रसाऽसि वानस्पत्यारसं मयि धेहीति मधुमन्यस्य पिवेदिति गौतमः वानस्पत्यइति प्रवचनम् , तथा दधिमन्योदमन्ययोः” इति द्राह्यायणादिकल्पसूत्रोक्तानां दधिमन्थमधुमन्योदमन्थानां निर्वचनं प्रसङ्गागतमिति बोद्धव्यम् ।
कल्पसूत्रवृत्तिकाराअग्निस्वामिनाप्येवमेव लोकमिमं पठितवन्तः दिक्षीतस्वन्यथेमं लोकं पठति
(दधनि पयसि वा कृताने मधु निदध्यानमधुपर्कमाइः । 5R
For Private and Personal Use Only