________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यासंग्रहः।
[२ प्र.]
याज्ञिकः, सदा-"परिसंवत्सरानहयेयुः” “पुनर्यज्ञविवाहयोश्च”-इति सोकसर्वकाले, मधुपर्केणाईयन्-पूजयन्, ऋषिप्रोकन गोभिलोकेन विधिना, मर्पिषा मधुना दधा-इत्येतत् त्रितयेनार्चयेत् ॥
कसे चितयमासिच्य कसेन परिसंवृतम् । परिश्रितेषु देयः स्यान्मधुपर्कइति ध्रुवम् ॥ ६५ ॥ कसे कांस्यपात्रे, त्रितयम्-सर्पिर्मधु दधि चासिच्य, कंसेन परि सर्वतोभावेन संवृतम्-सम्यगाच्छादितं कृत्वा, परिश्रितेषु-अहणीयस्थ सर्वतः समाश्रितेषु ग्टह्येषु, इत्यर्थः । तथाच वाजसनेयके प्रवचने । “यत्र चाह्र श्रागच्छति, सर्व ग्राह्यादतरे तत्र वेश्यन्ति”-इति । अपर प्राह । 'कटादिना परितः श्रितेषु सर्वतो वेष्टितेषु स्थानेषु', -इति । तदेवं मधुपर्कोदेयः स्यात्, इति ध्रुवं निश्चयः ।। मधुपर्के तथा सेमे असु प्राणाहुतीषु च ।
अनुच्छिष्टो भवेदिप्रायथा वेदविदोविदुः ॥ ६ ॥ मधुपर्कभक्षणे, सोमभक्षणे, अम-उदके प्रास्येन होमे पूर्वोक्रे, प्राणाइतीषु च-उपनिषदाह्मणेतेषु प्राणव्यानापानसमानोदानरूपपञ्चातिषु, विप्रोनोच्छिष्टाभवति, यथा वेदविदोजानन्ति ॥ प्राणाहुतिषु सोमेषु मधुपर्के तथैव च ।
आस्यहोमेषु सर्वेषु नाच्छिष्टोभवति हिजः ॥६॥ श्रास्यहोमेषु-“मर्पिरास्येन जुहुयात्”–इत्यादि सूत्रोकेषु । सर्वेषु,
For Private and Personal Use Only