________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
०६६
सह्यासंग्रहः।
[२ प्र.]
दधिमधूदकं वापि सनावित्येते विहितास्त्रयस्तु मन्थाः ।) इति । अत्रापि पाठे पूर्वोतएवार्थः ।
एवम्तावत् च्छन्दोगानां स्वशाखापरिभाषितश्चतुर्विधोमधुपर्को भवति; दधि-मधु-घृतम्, दधनि मधु, पयसि मधु, कृतान्ने मधुचेति । एवञ्च, सर्वत्रैव मधुपर्कः-इति समाख्याऽनुग्टह्यते । तत्र प्रथमोमधुपर्कः कांस्यस्थः कांस्थापिधानश्च भवति । द्वितीयेऽप्यमुं विशेषं वक्ष्यामः । शिष्टयोरनियमः । कथं ज्ञायते ? । पूर्वस्मिन्नेव मधुपर्के तदभिधानात्। शिष्टयोरनभिधानाच्च । नचेदं वाक्यं घृतासम्भवपरम् । प्रमाणाभावात्। श्राराच्चाभिधानात् । यदि हि घृतासम्भवएव विधिरयं स्यात् । तदनुपदमेवैतदपि कुर्यात् । तस्माद् व्यवहितकरणादवगच्छामः,-पृथगेवेते मधुपर्कप्रकाराः, इति । अपिच। 'अथवा' 'वा' शब्दयोरुपादानादेकार्थत्वाच्च विकल्पएवामीषां युक्रोवर्णयितुम् । तथा चोकम् । “एकार्थास्तु विकल्पेरन्” इति। 'पृथक्' इति वचनाच्चैवमवगच्छामः। तच्च यद्यपि पराचीनम् , तथाप्यविशेषात् पूर्वबाप्यनुषञ्जनीयम् । पयःकृतान्नाभ्यामपि मधुपर्काभिधानममुमर्थमुपोइलयति । घृतालाभे,-इत्यकरणाच्च । तस्मादियमेवावधारणा,प्रथमएव मधुपर्कः कांस्यस्थः कांस्थापिधानश्च भवति, नान्तिमौइति । 'कंसे त्रितयमासिच्य'-इति ब्रुवन्नाचार्यपुत्रस्त्रितयस्यैव कसे समासेचनं कंसेनापिधानञ्च, न इयोः, इति दर्शयति । यथा खल्वभिक्रमणं प्रयाजमात्रस्यैवाङ्गं न पुनरनुयाजादीनां प्रकरणेपातानाम्, इति हतीयाध्याये सिद्धान्तितम्, तद्वदत्रापि स्यात् ।
For Private and Personal Use Only