________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२.]
यासंग्रहः।
यूक्ष
कुतः? । “यज्ञोपवीतं परमं पवित्रम्” इति दर्शनात् । अभिधानकाण्डे पाठाच । तथा देवलोऽपि,
“कापास-क्षौम-गोवाल-शर-वल्क-हणोनवम् ।
सदा सम्भवतोधार्यमुपवीतं द्विजातिभिः” । इति गोवालनिर्मितयज्ञोपवीतस्य धारणं स्मरति। तदनेन गोवालनिर्मितपवित्रेण नित्यशोधार्यमाणेन दह शरीरे, दह लोके वा, पापानि न स्पृशन्ति । पवित्रपापयाविरोधात् । तथा, गात्रेषु श्रीलमीस्तिछति । श्रियम्, इति व्यत्ययात् प्रथमार्थे द्वितीया ॥
गोभिबीलपवित्रण यस्तु सन्ध्यामुपासते। गोधर्मे वेव वर्तन्ते न स पापेन लिप्यते ॥५६॥
उपासते-उपास्ते । वर्त्तन्ने-वर्त्तते । गेधर्मः पवित्रत्वम् । कथं ज्ञायते ?। “गावः पवित्रं परमम्” इति स्मरणात्। श्रतएव, म पापेन न लिप्यते, इति पूर्ववदर्थः । अपर पाह। 'गोधर्मेषु गोदानधर्मेषु वर्त्तते,-गोदान पुण्यं भवतीत्यर्थः' इति ॥
गोभिबालपवित्रण यस्तु ह्यग्निमुपासते । पञ्चामया हुतास्तेन यावज्जीवं न संशयः ॥५७॥
यावज्जीवं पञ्चामयस्तेन हुता:,-यावज्जीवं पञ्चाग्निहोमफलं म प्राप्नोतीत्यर्थः । पञ्चामयश्च,
"पवनः पावनस्त्रेता यस्य पञ्चामयो रहे" । 502
For Private and Personal Use Only