________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
સૂર
Acharya Shri Kailassagarsuri Gyanmandir
ह्या संग्रहः ।
[२ प्र. ]
सामर्थ्याभावात् । श्रर्थद्धि खल्वयमर्थेऽवगम्यते । सचायमवगम्यमानोपि वचनान्तर- विरोधान्न शक्नोत्यात्मानं लब्धुम् । यद्धि नाभेरूर्द्धं न क्रियते, न क्रियतएवैतत् स्तनादूर्द्धमिति नास्ति विरोधः । किमर्थं तर्हि स्तनादूर्द्धमित्यभिधानम् ? । ननु स्तनादधोपि नाभेरूईञ्चेत् न कर्त्तव्यम्, – इत्युक्तम् । दोषातिशयार्थम् इति ग्टहाण | श्रथवा । उभयोरप्यस्तच्छाखायामुपदेशात् सम्भवासम्भवाभ्यामनयो र्व्यवस्था भविष्यति । कथं नाम ? । सम्भवे कर्म्मप्रदीपेोक्तम् परिमाणम्, असम्भवे पुनरत्रोक्तम्, – इति न विरोधः । तदत्रैव कल्पे नाभेरधःकरणं निषिध्यते, न कर्म्मप्रदीप कल्पे, – इति तत्र कटिपर्य्यन्तं लम्बनमविरुद्धम् । निन्दाप्यत्रोक्ता न कर्मप्रदीपोकं परिमाणं निन्दति । विवक्षितार्थ- स्तुतिपरत्वात्तस्याः । " न निन्दा निन्द्यं निन्दितुं प्रवर्त्तते, श्रपितु इतरत् स्तोतुम्” – इति हि तन्त्रस्थितिः । तदिदं वचनमाचार्य्यपुत्रस्येत्येतदविदुषो नारायणेोपाध्यायस्य, – 'कर्म्म प्रदीपकम् परिमाणं गोभिलीयानाम् । श्रन्येषान्तु —
" स्तनादूर्द्धमधोनाभने कर्त्तव्यं कथञ्चन ।
इति देवलोक परिमाणम्' - इति प्रलापानादरणीयः || || " सुत्रेण नवतान्तवम् " - इत्येतत्तावदुक्तम्, सूत्रमिदानों व्याकुरुते -
गोभिबील पवित्रेण धार्य्यमाणेन नित्यशः । न स्पृशन्तीह पापानि श्रियं गात्रेषु तिष्ठति ॥ ५५ ॥
गोभिः - इति व्यत्ययात् षष्ठ्यर्थे तृतीया । एवमुत्तरचापि बोद्धव्यम् । गवां ये बालाः - केशा:, तन्निर्मितेन पवित्रेण यज्ञोपवीतेनेत्यर्थः ।
For Private and Personal Use Only