________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
एह्यासंग्रहः।
५३
कस्मात्?। तत्र संवत्सरशब्दस्य साक्षात् प्रतिमाशब्देन संयोगात् । एतच्च षष्टाथायें प्रपञ्चितं, तत्रैव द्रष्टव्यम् । अलमिइ ग्रन्थगौरवेण ॥
सावित्रं यावदन्ताय धाय्यं सव्वाश्रमस्थितैः ।
चूड़ाकरणधर्मेण गोदाने चास्य वापनम् ॥ ४४ ॥ सर्वैराश्रमस्थितैः-प्रस्तावात् ब्रह्मचर्याश्रमस्थितैः मरित्यर्थः । यावदन्ताय मावित्रं व्रतं धार्य्यम्-इत्यादरार्थमुक्तम् । तेन, गोदानादि अतान्तराणं यथावदनुष्ठानासम्भवेऽपि, सावित्रव्रतमवश्यमनुष्ठेयमिति सिध्यति । अपराह । 'सर्वाश्रमस्थितैः-सर्वेषां ; ब्रह्मचारिग्टहस्थ-वानप्रस्थ-यतीनामाश्रमस्थितैविप्रेः, सावित्रम्-सवितुरिदं मन्त्र; साविया अभिवन्त्रितं यज्ञोपवीतं धार्य्यम्, यावदन्ताय मरणपर्यन्तम्' इति । अनयोयुकायुकन्वे सूरिभिरुन्नेये । मम तु, 'पूर्वाश्रमस्थितैः' इत्येव पाठः प्रतिभाति । गोदाने गोदानाङ्गकेशान्तकरणे चूड़ाकरणोकप्रकारेण अस्य ब्रह्मचारिणोवापनं करणीयम् । तथा च गोदानोपक्रमे गोभिलसूत्रम् । “चूड़ाकरणेन केशान्तकरणं व्याख्यातम्”-दति ॥
विप्राणामग्निराचार्य इन्द्रस्त्राता व्रते व्रते।
तस्मात् सर्वव्रतान्तेषु चरुरैन्द्रोविधीयते ॥ ४५ ॥ यस्मात् अग्निर्विप्राणामाचार्यः, इन्द्रश्च सर्वेषु व्रतेषु पालनकर्ता, तस्मात् कारणात् सर्वव्रतान्तेश्चन्द्रश्चरुः क्रियते । सखल्वयमनप्रवचनीयवतान्तेषु विधिष्टव्यः । सहप्रवचनीयापरनामधेयस्योपनयनव्रतस्यान्ते
For Private and Personal Use Only