________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
ग्टह्यासंग्रहः।
[२ प्र.]
मन्त्रकाण्डे पद्यन्ते । तत्र च, अग्ने व्रतपते व्रतं सावित्रं अष्टवर्षे अष्टमासं अष्टदिनं वा चरिष्यामि, इति ब्रूयात्। एवमपरेवपि मन्त्रेषु ऊहनीयम् । एवं गोदानादिवतेवाहनीयम् ॥
समामासाअहोराचास्तुल्याब्राह्मणचादिताः।
साविचमष्ठभिवर्षे कार्य मासैदिनैश्च वा ॥ ४३ ॥ समाः-संवत्मराः, मासाः, अहोरात्राश्च, ब्राह्मणेन तुल्या: कथिताः । अतः सावित्रं व्रतमष्टभिर्वर्षमार्दिनैरपिवा करणीयम् । अयमर्थः । प्राचार्य्यण,-"गर्भारमेषु ब्राह्मणमुपनयेत्”-दूति गभीष्टमे उपनयनं सूत्रयित्वा, “अथातः षोडशे वर्षे गोदानम्” इति षोड़शवर्षे गोदानस्य सूत्रणात् अष्टौ वर्षाः सावित्रव्रतस्य कालाः लभ्यन्ते । ब्राह्मणेन तु समामासाहोरात्राणं तुल्यत्ववचनात् अष्टा मासाः अष्टा दिनान्यपि तस्य कालः, इति निर्णयते । तस्मात्,-"आषोड़शाद ब्राह्मणस्यानतीतः कालोभवति" इत्येतस्मिन्नपि कल्पे, अन्ततोऽटौ दिनान्यपि सावित्रव्रतमाचरणीयम्, इति सिद्धम् । तथा च ब्राह्मणम्। "योवै मासः संवत्सरः” इति । “आदित्योवा सर्वतवः, सयदेवोदेत्यथ वसन्तो, यदा सङ्गवोऽथ ग्रीभो, यदा मध्यन्दिनोऽथ वर्षा, यदाऽपरान्होऽथ शरत्, यदाऽस्तमेत्यथ हेमन्तशिशिरी” इति च । अत्र खलु “सर्वान् ऋतन् अहनि सम्पादयति, सर्वं च ऋतवः संवत्मरः, तस्मात् अहः संवत्सरशब्देनोच्यते” इति पूर्वमीमांसाभाष्ये शवरखामिनः । केचित् पूनरेतदविद्वांसः,-"द्वादश वै रात्रयः संवत्सरस्य प्रतिमा” इति ब्राह्मणवाक्यमिहोदाहरन्ति। तदसङ्गतम् ।
For Private and Personal Use Only