________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ २ प्र.]
ह्यासंग्रह।
५१
सर्वयज्ञेषु विप्राणामद्भिः पवं प्रवर्तते।
तस्मात् सुरोत्तमायापोऽभिरेवाभिषेचयेत् ॥४१॥ सर्वकर्मसु विप्राणं प्रथममद्भिः क्रिया प्रवर्त्तते । तस्मात् कारणात्श्रापएव सुरोत्तमाः । अतः, अभिरेव कन्यामभिषेचयेत् । तदनेन, -"सुहृत् सुरोत्तमेन सशरीरां त्रिमुर्धन्यभिषिञ्चेत्” इति सूत्रस्थं सुरोत्तमपदं व्याख्यातम् । श्राह । कस्मात् पुनः कारणादापः सुरोतमाः उच्यन्ते?। उच्यते । नेद्यण्टुककाण्डे तावत् ‘सुरा'--इत्युदकनामसु पठितम् । तच तत्र पञ्चविंशतितमं नाम । तस्मादुत्तममुदकमेव सुरोत्तमशब्दस्यार्थः ॥
ब्रह्मचारी व्रतादेशे व्रतनाम प्रवाचयेत्।
चरिष्ये यावदन्ताय सावित्रे चान्तकीर्तनम् ॥ ४२ ॥ "अमेवतपते इति हुत्वा"-इति सूत्रोके व्रतादेशे । अथवा । व्रतस्थादेशोयत्र तस्मिन् , व्रतादेशे,-'अग्ने व्रतपते व्रतं चरिष्यामि'इत्यादिमन्त्रपञ्चके, इत्येतत् । ब्रह्मचारी व्रतस्य नाम प्रवाचयेत्प्रकथयेत् । यावदन्ताय व्रताचरणं तस्याप्यन्तस्य कीर्तनं कुर्यात् । बतादेशशब्दात्,-"ममिधमाधेहि" इत्यादि सूत्रोक्तं व्रतानामादेश मा प्रशाङ्क्षीदिति 'सावित्रेच'-इत्याह । मावित्रे व्रते-सहप्रवचनीयापरनामधेये, उपनयनव्रते, इत्येतत् । तस्य सावित्र्यध्ययनार्थत्वात सावित्रत्वम् । च-शब्दादनप्रवचनीये च गोदानादौ । तत्रोदाहरणम् । 'अग्ने व्रतपते व्रतं चरिष्यामि, इत्येवमादयः पञ्च मन्त्राः पद्यमान
5 P2
For Private and Personal Use Only