SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५. ह्यासंग्रहः । [२ प्र.] स्थालीपाकउत्तरघृतस्तमवेक्षयेत्” इति सूकोतः स्थालीपाकः, यश्च सर्वदा भोजनाद्यर्थं ग्टहे पाकः, यश्च विवाहे लाजानां पाकः, तेव्वेतेषु निळपणेविधिः-(निर्वपण:-इति अणन्तत्वेपि वृद्धेरभावः।)निर्वपणसंबन्धी विधिः, निर्वपणरूपोवा विधिः,-'अमुष्मै त्वा जुष्टं निळपामि'-इत्येवंरूपः, प्राचार्यंकः ॥ दक्षिणाकपाः शिष्टा आत्रेयास्त्रिकपर्दिनः। आङ्गिरसः पञ्चचूड़ा मुण्डा भृगाः शिखिनाऽन्ये॥४॥ शिष्टाः कौण्डिन्यादयः' इति दीक्षितभाव्यम्। दक्षिणस्यां कपर्दी थेषां तदमे दक्षिणाकपर्दाः भवन्ति । कपर्दीजटा शिखेत्यनान्तरम् । मस्तक-दक्षिणभागे शिखिनोभवन्यमी,-इत्यर्थः । अपरे पुनरेतदविद्वांसोभासन्ते,–'शिष्टाः कौण्डिन्यादयोविवाहे चीन कपीन् प्रयकुन्ति दक्षिणाः' इति । पात्रेयास्त्रिकपर्दिनोभवन्ति । श्राङ्गिरमः पञ्चचूड़ा:-पञ्चशिखाभवन्ति । भूगोवंशजाता:-भार्गवाः, मुण्डितशिरसोभवन्ति। उतभ्योऽन्ये, शिखिन:-अनियतशिखाः भवन्तीत्यर्थः । एतदपि, “वाशिष्ठाः पच्चचूड़ाः स्युस्त्रिचूड़ाः कोण्डपायिनः” । इत्यादिविशेषविधिव्यतिरिक्तविषयं द्रष्टव्यम् । कौथुमराणयनादीनामपि सशिखमेव वपनं ग्टह्यसूत्रभाष्ये समर्थितमस्माभिः । तदनेन,"उदगनेरुतसृप्य कुशलीकारयन्ति यथागोत्रकुलकल्पम्” इति सूत्रोकोगोत्रकुलकल्पोव्याख्यातः ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy