________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र.]
ग्टह्यासंग्रहः।
18
अस्माभिः। स ख वयमाचार्यानुपदिष्टोविशेषः प्राचार्यपुत्रेणोपदिष्टः। प्राचार्य्यस्तु प्रशस्तान् विवाहानभिप्रेत्य हामानन्तरं परिणयनं सूत्रयाञ्चकार, दूति स्लिव्यते । तथाच स्मरणम् ।
"चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयोविदुः”। इति। कश्चित् पुनर्बाह्यादिशब्दानां विवाहनामत्वमविद्वानन्यथेमं ग्रन्थं वर्णयाञ्चकार, 'बायस्यार्षस्य'-इत्यादिम्। 'ब्राह्मणस्य ऋषेर्देवस्य प्रजापतेर्विवाहे पूर्व लाजहोमः, पश्चादनेः परितोनयनम् । गन्धासुरपिशाचानां विवाहे, राक्षसानां रावणादीनाञ्च विवाहे, पूर्व परिणयः पश्चालाजहोमः' इति । तदश्रद्धेयम् ॥ अथेदानीम्-"तत्रैनां सकेशनखामभ्यज्य हासयित्वाऽऽसावयन्ति"इतिसूत्रोक्तं हासनं व्याकुरुते,
उद्दत्तनं नखच्छेदारोमच्छेदनमेवच। संसनं मेखलायाश्च हासनानि विदुर्बुधाः॥३८॥ उद्वर्त्तन-कल्केन शरीरादाज्यादीनां दूरीकरणम् । मेखलाया: काञ्चयाः संसनम्-अधःपातनम्। प्रसिद्धमन्यत्। एतानि हासनानि जानन्ति पण्डिताः ॥
चूडाकर्मणि सीमन्ते यश्च पाकः सदागृहे। विवाहे चैवलाजानां नाता निवपणो विधिः॥३६॥
चूडाकर्मणि,-"प्रानडुहागोमयः कृसरः स्थालोपाकोवृथापक्वइत्युतरतः” इतिसूत्रोनोयः स्थालीपाकः, यश्च मीमन्तकरणे,-"कृमरः
5"
For Private and Personal Use Only