SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्टह्यासंग्रहः। [२ प्र. रक्षणार्थम् । तदनेन, “प्राजनेनान्यः" इति सूत्रोपदिष्टस्य प्राजनिनो विनियोगो दर्शितः॥ ब्राह्मास्यार्षस्य दैवस्य प्राजापत्यस्य याजिकैः । पूर्वं होमविधिः प्रोक्तः पश्चात् परिणयः स्मृतः॥३६॥ ब्राह्यादयः शब्दाः विवाइविशेषाणां वाचकाः। तथाच मनुः । "चतुर्णमपि वर्णनां प्रेत्य चेह हिताहितान् । अष्टाविमान् समासेन स्त्रीविवाहान् निबोधत । ब्रायोदेवस्तथैवार्षः प्राजापत्यस्तथाऽसुरः । गान्धी राक्षसश्चैव पैशाचश्चाष्टमोऽधमः” । इति । लक्षणममीषामन्यत्रानुसन्धेयम् । ब्राह्मदेवार्षप्राजापत्यविवाहेषु, प्रथमं लाजहामविधिरुक्त, पश्चात् परिणयः-अग्नेः परिणयनमुक्तं याज्ञिकैः। तथाच गोभिलसूत्रम्। “हुते पतिर्यथेतं परिव्रज्य प्रदक्षिणमग्निं परिणयति"-दूत्यादि। ब्राह्मणार्षस्य, दूति पाठेऽपि* ब्रह्मणोऽयं ब्राह्मण:-ब्रायः इत्येतत् । तस्यार्षस्य चेति पूर्वोक एवार्थः । गान्धवासुरपैशाचा विवाहा राक्षसाश्च ये। तेषां परिणयः पूर्व पश्चावोमो विधीयते ॥ ३७॥ गान्धवादिषु विवाहेषु पूर्वमग्नेः परिणयनं पश्चालाजहोमो विधीयते * ब्राह्मास्यास्य'–इत्ययमेव पाठः संग्रहकारैर्धतः। आदर्शपुस्तके तु, -'ब्राह्मणाघस्य'-इति पाठो दृश्यते । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy