________________
Shri Mahavir Jain Aradhana Kendra
८४६
www.kobatirth.org
गृह्यासंग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र. ]
दक्षिणां दिशमास्थाय यमा मृत्युश्च तिष्ठतः । तयेास्तु रक्षणार्थाय तस्माद् ब्रह्मा वहिर्भवेत् ॥ ३१ ॥
यस्मात् दक्षिणां दिशमभित्य यमोम्टत्युश्च तिष्ठतः, तस्मात् तयोर्वरasar: रक्षणार्थीय ब्रह्मा वद्दिर्भवेत् । तुशब्दचशब्दार्थः समुच्चये भिन्नक्रमेण योजनीयः । ब्रह्मा च वहिर्भवेत्, – इति । स खल्वयं प्राजग्राहादीन् समुच्चिनेोति ॥
अथेदानीं लाज हेाममधिकृत्याह -
सोमः प्रकृतिरेखा हि लाजानाश्रित्य तिष्ठति । विरुद्धमाज्यं सेोमेन नाभिघारणमर्हति ॥ ३२ ॥
सोमः चन्द्र:, प्रकृतिरेखा सामदेवत्या लाजानाश्रित्य तिष्ठति, श्राज्यञ्च सोमेन विरुद्धम्, तस्मात् न श्रतिधारणमर्हति लाजः ॥ कथन्तर्हि गोभिलेन, – “तं सेोपस्तीणीभिघारितम् ” - इत्यादिसूत्रेण लाजानामुपस्तरणमभिघारणञ्चोक्तम् ? । तत्राह -
शमीपलाशमिश्राणां लाजानामभिघारणम् । पूर्व्वीणां घृतमिश्राणामाचार्यः कल्पितं तथा ॥३३॥
शमीपलाशभिश्राणाम् - शमीपत्र मिश्राणाम्, घृतमिश्राणां वा । “खादिरे बाति पालाशे बध्नाति रोहितके बनाति” - इतिवत् विकल्पोऽत्र द्रष्टव्यः । तदेवम्भूतानां पूर्व्वाणाम् पूर्वमासादितानां लाजानामभिघर करणीयम् । व 'आचार्यै:' गोभिले:, ' तथा ' शमीपलाश -
For Private and Personal Use Only