SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] सह्यासंग्रहः। ८४५ पदा कटं प्रवर्तयन्तीत्येतत्। पन्यानं पतियानं-पथिलिङ्ग प्रमे पतियानः, इति मन्त्रं संजपेत् । अजपन्यां बध्वां वरो वा अत्र मन्त्र जपेत् । श्राकटान्तात्-कटस्य वहिरन्तप्राप्तिपर्यन्तम्-"वहिषोऽन्तं कटान्तं प्रापयेत्”-दतिसूत्रोककर्मपर्यन्तं जपेदित्येषा स्थितिः शास्त्रमर्यादा ॥ लाजानाज्यं सुवं कुम्भं प्राजनाश्मानमेवच | प्रदक्षिणानि कुर्चीत दम्पती तु विना ग्रही॥२६॥ "हुते पतिर्यथेतं परिव्रज्य प्रदक्षिणमग्निं परिणयति" इतिसूत्रोकानिप्रदक्षिणकाले दम्पती लाजादीनामपि प्रदक्षिणं कुर्वीत-कुर्याताम्। कचित्तथैव पाठः। ग्रही विना । 'अन्यतोऽपिच' इति ग्रहेरिः। ग्रही इति द्वितीयाद्विवचनान्तं पदम् । उदकग्राहं प्राजनग्राहच्च विनेत्यर्थः । तुशब्दः पुनरर्थः । रघुनन्दनेन तु चतुर्थचरणमाकुलीकृत्य पठितम्'दम्पती न विनाऽनिकम्'-दति । तदनाकरम् ।। तदेतत् सुव्यक्तमाह, प्राजग्राहमुदग्राहं ब्रह्माणमृत्विजं तथा । एतानि वाह्यतः कृत्वा शेषाणान्तु प्रदक्षिणम्॥३०॥ प्राजनग्राइमुदकग्राइं ब्रह्माणम्मृत्विजञ्च, एतानि--(सामान्यविवक्षया व्यत्ययादा नपुंसकनिर्देशः) एतान् वाहृतः कृत्वा, शेषाणां लाजादीनां प्रदक्षिणं कुर्याताम् ॥ प्राजग्राहादीनां वाह्यतः करणे हेतुमाह, For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy