________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र. ]
ह्यासंग्रहः ।
श्रनिन्दिताभिः स्ववर्णभिः समानवर्णभिः स्त्रीभिः - ब्राह्मण्याः ब्राह्मणीभिः, क्षत्रियायाः चत्रियाभिः, वैश्यायाः वैश्याभिरित्यर्थः । चतुर्भिः कलमैः, श्रक्षतमिश्रितैः ( लिङ्गव्यत्ययोऽत्र द्रष्टव्यः ) यवमिश्रिताभिरद्भिः पनं कर्त्तव्यम् ॥
छह
गाड़ी पैष्टीच माध्वी च विज्ञेयाः विविधाः सुराः । पाणिकर्म्मणि गाड़ी स्यात् सत्या माध्वाधमा सुरा ॥ १६ ॥ पाणिकर्मणि गोड़ी सुरा सत्या स्यात्, माध्वी पुनरधमा । पैष्टी मध्यमेत्यर्थादुक्तं भवति । श्लिष्टमन्यत् ॥
" नग्निका तु श्रेष्ठा " - इति सूत्रां ननिकां व्याकुरुते, -
नग्निकान्तु वदेत् कन्यां यावन्नर्त्तुमती भवेत् । ऋतुमती त्वननिका तां प्रयच्छेत्त्वननिकाम् ॥ १७ ॥ यावन ऋतुमती रजखला भवेत्, तावत् कन्यां ननिकां वदेत् । ऋतुमती पुनरनग्निका भवति । तां कन्यामननिकाम्टतुमतीमपि दद्यात् । तुरप्यर्थेौभिन्नक्रमेण योजनीयः । तदेवमनग्निकामपि दद्यात्, ननिका पुन: श्रेष्ठा, न पुनरनग्निकायाविवाहएव न भवतीत्यभिप्रायः । मनुरपि,
“काममामरणात्तिष्ठेद्ग्टहे कन्यर्त्तुमत्यपि ।
न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ” । इति स्मरन् ऋतुमत्या अपि विवाहमनुजानाति । यानि पुनरननिकानिन्दापराणि स्मृतिवचनानि तेषामननिकाया: श्रप्राशस्त्ये
For Private and Personal Use Only