________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यासंग्रहः।
[२ प्र.]
तदेव विवृणेति । आयुष्यम्-आयुषे हितम् , याज्ञिकम्-यज्ञोद्भव पुण्यं तेन कर्मणा नोत्पद्यते-इति । तथा च, संस्कृतं लौकिकमग्निमभिप्रेत्य तत्र होतुः फलवादं वक्ष्यति । लौकिकस्याप्यग्नेः संस्कारात् परं न लौकिकत्वम्, इत्यसङ्गतैषा कल्पना रघुनन्दनस्य । कस्मात् ? । प्रमाणभावात् । तथा त्वस्याभ्युपगमे च लौकिके नौ हातुः फलवचनं न खन्वपि उपपत्स्यते । न खल्वसंस्कृते लौकिके अग्नौ हामं मन्यसे । अपि चैवं सति, “अन्वष्टकावष्टकावदग्नी इला" इति विष्णुसूत्रे अग्रिग्रहणात् पिढयज्ञहोमस्य लौकिकाना निषेधाच्च अन्वष्टकायामनग्निमतां नाधिकारः, इति खोकमपि व्याहन्येत । लौकिकस्याप्यग्नेः संस्कारात् परं लौकिकत्वाभावे तत्रैव होमस्योपपत्तेः कथमनग्निमतां तत्रानधिकारमात्थ । तदास्तां तावदार्षवचनविरोधो यावत् खवचो व्याघातमपि नालोचयमि, दूति किमत्र ब्रूमः। यथा चानग्निमतामप्यस्त्यधिकारोऽन्वष्टकायां तथा ग्टह्यभाव्येऽभिहितमस्माभिः॥
वैदिके लौकिके वाऽपि यज्जुहोति प्रयत्नतः । वैदिके ब्रह्मलोकः स्यात् लौकिके पापनाशनम्॥१४॥
वैदिके लौकिके वा संस्कृते अमो यज्जुहोति, तस्य फलवचनमुक्तरार्द्धम् ॥ स्ववाभिरनिन्द्याभिरभिरक्षतमिश्रितैः । स्नानं चतुर्भिः कलसैः स्त्रीभिः स्त्रों यत्र लावनम्॥१५॥
यत्र विवाहादी स्त्रीभिः स्त्रों कन्यां प्रति प्लावनं विधीयते, तत्र
For Private and Personal Use Only