________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्टह्यासंग्रहः।
[१ प्र.]
पवित्रमन्तरे* कृत्वा स्थाल्यामाज्यं समावपेत्॥१०५॥ एतत् सम्पूयनं नाम पश्चादुत्पवनं स्मृतम् | अन्तरे मध्ये पवित्रम्
“अनन्तर्गर्भिणं मागं कौशं द्विदलमेवच । प्रादेशमात्रं विजेयं पवित्रं यत्र कुत्रचित् । एतदेव हि पिङ्गेल्या लक्षणं समुदाहृतम् ।
आज्यस्योत्पवनार्थं यत् तदप्येतावदेव तु"। इति कर्मप्रदीपोतलक्षणं, कृत्वा संस्थाप्य, श्राज्यस्थाल्यामाज्यं प्रक्षिपेत् । तदेतत् सम्पूयनं नाम स्मृतम् । एतदनन्तरमुत्पवनम् । तथाच गोभिलसूत्रम् । “सम्पूयोत्पनात्युदगग्राभ्यां पवित्राभ्याम्” इति ॥ "आज्यं संस्कुरुते” इति सूत्रोक्रमाज्यं व्याकुरुते,
अग्निना चैव मन्त्रेण पवित्रेण च चक्षुषा ॥ १०६ ॥
चतुर्भिरेव यत् पूतं तदाज्यमितरबृतम् । अमिना अधिश्रयणं, मन्त्रेण-देवस्थत्वा, इत्यादिना ; पवित्रण च यथोक्त लक्षणेनोत्पवन, चक्षुषा वीक्षणम् । एभिश्चतुर्भिर्यत् पूर्त तदाज्यमित्युच्यते । एतदन्यदसंस्कृतं यत् तहतम् ॥
तं वा यदि वा तैलं पयो वा दधि यावकम॥१०७॥ आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते ।
* अन्तरा,-इति पाठान्तरम् ।
For Private and Personal Use Only