________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प.]
ह्यासंग्रहः ।
२७
पयोदुग्धम् । यावकं यवागूः । श्राज्यस्याभावे आज्यस्थाने नियुकानामेषामाज्यशब्दोविधीयते। तदनेन “श्राज्यं संस्करते मर्पिस्तेल दधि पयो यवागू वा” इति गोभिलमत्रं व्याख्यातम् ॥
आज्यानां सर्पिरादीनां संस्कारे विधिचोदिते॥१०॥
अनधिश्रयणं दधः शेषाणं श्रयणं स्मृतम् । विधिचोदिते संस्कारे, तद्विषये इत्यर्थः । दध्नोऽधिश्रयणं नास्ति, शेषाणामधिश्रयणं स्मृतमाचार्यैः । श्लिष्टमन्यत् । एवं वाविधिचोदिते संस्कारे कृते मति प्राज्यशब्दाविधीयते, इति गतेन संबन्धः । तत्र विशेषमाह अनधिश्रयणम्-इत्यादि । पूर्ववड्याख्यानम् ॥ यथा सीमन्तिका* नारी पूर्वगर्भेण संस्कृता॥१०॥
एवमाज्यस्य संस्कारः संस्कारे विधिनादिते । यथा सीमन्तिका नारी पूर्वगर्भण-प्रथमगर्भेण संस्कृता भवति;द्वितीयादिगर्भे न पुनः सीमन्तकरणसंस्कारो यथेत्यर्थः । तथाच गोभिलसूत्रम्। “अथ सीमन्तकरणं प्रथमगर्भ" इति । विधिना उक्ने संस्कारे-तद्विषये इत्येतत् । श्राज्यस्य संस्कारोप्येवमेव भवति । संस्कारविधिचोदितः, इति पाठे, संस्कारवियुक्त श्राज्यस्य संस्कारोप्येवमिति व्याख्येयम् । एतदनेनातं भवति। सीमन्तकरणसंस्कारो
* सीमन्तिनी,-इति पाठान्तरम् ।
For Private and Personal Use Only