SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] गृह्यासंग्रहः । कतिभिस्तु भवेद्ब्रह्मा ? कतिभिर्विष्टरः स्मृतः १ ॥८९॥ पञ्चाशद्भिः कुशैर्ब्रह्मा तदर्हेन तु विष्टरः । ८१७ ऋजुरक्षरार्थः । श्रभ्यां स्लोकाभ्यां गोभिलोक्को दर्भवटुविष्ट व्याख्याती । कर्मप्रदीपे तु "यज्ञवास्तुनि मुष्याञ्च स्तम्बे दर्भवटा तथा । दर्भ संख्या न विहिता विष्टरास्तरणेष्वपि” । " इति दर्भवटा विष्टरे च दर्भ संख्या निषिद्धा । तदनयोर्विकल्पः, - पञ्चाशद्भिर्वा कुशैर्भवति, अपरिमितैर्वा कुशैः - इति । कुतः ? | द्वयोरप्यस्मच्छास्त्रेऽभिधानात् । 'सम्भवे पञ्चाशद्भिः कुरसम्भवे अपरिमितैरिति व्यवस्थितेाऽयं विकल्पः - इति नारायणेोपाध्यायाः । रघुनन्दनस्तु च्छन्दोगोऽपि श्राचार्यपुत्रस्यैतद्वचनमित्यजानानः, - शाख्यन्तरीयमेतत् संख्यावचनम्, इति ब्रुवन् कल्पनानैपुण्यमात्मनः ख्यापयाञ्चकार ॥ उदग्धारामविच्छिन्नामाग्नामारभ्य दक्षिणाम् ॥१०॥ दद्याद्ब्रह्मासनस्थाने सर्व्वकर्म्मसु नित्यशः । अमेरिदं श्रग्यं स्थण्डिलमारभ्य दक्षिणां दक्षिणणग्रामितिदीक्षितभाव्यम् । अग्निमारभ्य, - इति तत्त्वकारः पठति । तदेवं ब्रह्मासनस्य स्थाने अविच्छिन्नमुदकस्य धारां दद्यात् । तदनेन, – “दक्षिणतोऽने ब्रह्मामनमास्तीर्य्य” – इति सूत्रोक्तं ब्रह्मासनास्तरणम्, तत्स्थाने इत्यमुदकधारां दत्त्वा करणीयमिति व्याख्यातम् । प्रागग्रवारिधारादानम् - इति केचित् ॥ 5 1 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy