________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
सह्यासंग्रहः।
[१ प्र.]
लेखनाभ्युक्षणे कृत्वा निहितेऽनौ समिद्ददत् ॥८६॥ ततो भूमिग्रहं कृत्वा कुर्यात् परिसमूहनम् । समिदित्या विभकिलोपः। दददिति शचन्तम् । तदयमर्थः । रेखोल्लेखनमभ्युक्षणञ्च कृत्वा निहिते स्थापितेऽमो समिधं दद्यात् । ततः,-"पश्चादग्नेभूमी न्यची पाणी प्रतिष्ठाप्येदं भूमेर्भजामह इति" -दुतिसूत्रोक्तं भूमिग्रहं कृत्वा, “इमं स्तोममितिलचेन परिसमूहेत्" -इतिसूत्रोत परिसमूहनं कुर्यात् ॥
ब्रह्माणमुपसंकल्प्य चरुश्रपणमारभेत्॥ ८७॥ ब्रह्माणं स्तरणं विद्याचर्यच न कल्पितः।
ततो ब्रह्माणमुपसंकल्प्य, अग्निममीपे सम्यक् ग्रह्योकप्रकारेण स्थापयित्वा, चरुश्रपणमारभेत । तस्मात्, भूमिजपादः पूर्व ब्रह्मस्थापनमित्यसङ्गतं वचनम् । यत्र कर्मणि चर्न कल्पितस्तत्र ब्रह्माणमेव स्तरणं जानीयात् । न तत्र ग्टहोतं स्तरणं कुर्यादित्यर्थः ॥ ब्रह्मविष्टरयो*श्चापि सन्देहे समुपस्थिते ॥८॥
अर्द्धकेशो भवेद्ब्रह्मा सम्बकेशस्तु विष्टरः । ब्रह्मविष्टरयोः स्वरूपसन्देहे निर्णयमाह,-अर्द्धकेशो ब्रह्मा भवेत् । अधोलम्बितकेशो विष्टरो भवेत्। केशोऽग्रम् ॥
* ब्रह्माविष्ठरयोः,इत्यादर्शपुस्तके अशुद्धः पाठः ।
For Private and Personal Use Only