________________
Shri Mahavir Jain Aradhana Kendra
[ १ प्र. ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह्यासंग्रहः ।
"अनन्तर्गर्भिणं सायं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित्" ।
इति कर्मप्रदीपे द्विदलस्योक्तत्वात् । पविचं विशिनष्टि, गर्भ अन्तर्गशून्यम् । कुशाग्रजं साग्रकुशेन जातम् । ललाटात् ललाटमारभ्य ( यक्लोपे पञ्चमी), चिबुकं चिवुकपर्य्यन्तम्- ललाटावधि चिवुक - पर्यन्तपरिमाणमित्यर्थः । तदनेन - " तत एव वर्हिषः प्रादेशमात्रे पवित्रे कुरुते " - इत्यादिचोकं पवित्रं व्याख्यातम् | " ललाट प्रमाणेन चिबुकं सन्दंशं प्राजराचार्य्य:" - इति दीक्षितभाष्यम् ।
"परिधीनप्येके कुर्वन्ति शामीलान् पाणीन् वा " - इतिस्र चोक्रान् परिधीन व्याचष्टे । परिधयो बाहुमात्रा भवन्ति । विशेषस्तु कप्रदीपे ।
" बाहुमात्रा: परिधयो ऋजवः सत्वचोऽव्रणाः । यो भवन्त्यशीणीया एकेषान्तु चतुर्दिशम् ” ।
८१५
इति ॥
दीप्तामै विस्फुलिङ्गेऽच वने दग्धेषु दारुषु ॥ ८५ ॥ न च संस्कार दोषोऽस्ति तथा चरुकपालयेाः ।
'विक्षिप्ते दीप्ताग्नौ’— इति दीक्षितभाव्यम् । विस्फुलिङ्गे अग्निकणे, वने दवाग्निना दग्धेषु काष्ठेषु, चरौ च माजीरादिदृष्टाद्यल्पोपघाते, कपाले च, संस्कारे प्रोक्षणादौ कृते सति दोषो नास्ति ॥ श्रथेदानीं कक्रममाह -
For Private and Personal Use Only