________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८१
ह्यासंग्रहः।
[१ प्र.]
पुष्कलां-पाणितलस्याकारेण पुष्कलां विस्तीर्णाम् , त्वग्विलां-खकपर्यन्तखातां त्वचि खातां वा । (एतेन त्वक्युक्रमेवास्था अयं स्यात् )। तदेवम्भूतां सुचं कुर्बोत। दूयमेव जुहरित्युच्यते। अत्रापि विशेषः कर्मप्रदीपे द्रष्टव्यः । मेक्षणमपि सुनुवादिवत् काष्ठनिर्मितम् । विशेषस्तु कर्मप्रदीपे।
"नजातीयमिमा प्रमाणं मेक्षणं भवेत् । वृत्तं चाङ्गुष्ठपृथ्वग्रमवदानक्रियाक्षमम् । एषैव दर्वी यस्तत्र विशेषस्तमहं वे ।
दर्वी ड्यङ्गुलपृथ्वग्रा तुरीयोनन्तु मेक्षणम्” । इति ॥
शङ्खश्चैवोपवेशश्च द्वादशाङ्गुल इष्यते । अन्वष्टक्यादिकर्मणि कर्पूणं खननार्थः शङ्कुर्भवति, 'कृषी चोपदध्यात् , -इति सूत्रोको दृष्यपरपर्याय उपवेशः,' इति नारायणोपध्यायाः । 'उपवेशी हस्ताप्रतिरूपकः,' इति दीक्षितभाव्यम् । स खल्वयं शङ्करूपवेशश्च द्वादशाङ्गुल दुय्यते प्राचार्योः । अत्रापि,
“शङ्कुश्च खादिरः प्रोनोरजतेन विभूषितः” । इति कर्मप्रदीपोकोविशेषो द्रष्टव्यः ॥
नवैः शोभनैरगर्भ पवित्रन्तु कुशाग्रजम् ॥ ८४ ॥ ललाटाच्चिवुकं प्राहुबाहुमात्राः परिधयः । नवैर्न पुनरास्ततेरित्यर्थः। शोभनेः कुशैः पवित्रं प्राडराचार्याः । बहुवचनं व्यक्तिभेदाभिप्रायम् । कथं ज्ञायते ? ।
For Private and Personal Use Only