________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्टह्यासंग्रहः ।
[१ प्र.]
"भ्रातृणामविभकानामेकोधर्मः प्रवर्त्तते । विभागे मति धोऽपि भवेत् तेषां पृथक् पृथक् ।
इति । तस्मात् ,-रह्यकर्मणामनेरसाधारणाश्चत्वारः कालाः, इति तथोकम् । तथाच गौतमः । “भार्यादिरनियादिवा, तस्मिन् ग्टह्याणि"-इति । एतत्सूत्रोक्तस्यैव खत्वग्नेश्चत्वार मे प्राधानकालाः भवन्ति, इत्यवोचाम ॥ भार्यादेस्तावदग्नेः प्रथमप्रातराहुतिप्रकारः,-"तेन चैवास्य प्रातराहुति हुता भवति"-दूति सूत्रेणेतः । दायादेरग्नेः प्रथमप्रातराहुतिप्रकारमाह,
परमेष्ठी विभक्तश्च जुहुयादक्षतान् सकृत् । प्रातस्तूष्णीं घृतं वाऽपि प्रातराहुत्युपक्रमः ॥ ७७ ॥
येन परमेष्टिनाऽनेराधानं कृतं, स इह परमेष्ठी भण्यते । येन च विभागकाले कृतमनेराधानं, स विभक्त इत्युच्यते । स खल्वयं परमेष्ठी विभकश्च, अक्षतान्–'अक्षतास्तु यवाः प्रोक्ताः' इति वचनात् यवान्, घृतम् वा सकृदेकवारं वृष्णीममन्त्रकं प्रातर्जुहुयात्। सेयं दायादेरग्नेः प्रथमा प्रातराहुतिर्भवति। श्रपरस्तु सकृत् पदमनर्थकं कुर्वनाह,–'द्वितीयामपि वृष्णीं जुहुयात्, इति ।
तदनयोः परमेष्ठिविभकयोरन्योः प्रातराहुतिभ्यामुपक्रमः प्रारम्भः । तदनेन, “सायमाहुयुपक्रम एवात ऊई ग्रोऽनौ होमाविधीयते”इति गोभिलसूत्र दायाद्यग्निव्यतिरिक्तविषयं व्याख्यातम् ॥
For Private and Personal Use Only