________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र.]
रह्यासंग्रहः ।
८९९
"अपिवाऽन्यं मधित्वाऽभ्यादध्यात्” इति सूत्रेणारणेयोऽनिरुपदिष्टः । तत्रारणिस्वरूपादिकमाह
आश्वस्योन्तु शमीगभीमरणिं कुर्वीत सोत्तराम्। उरोर्दोघी रत्निदीघीं चतुर्विंशाङ्गुलां तथा ॥ ७८॥
चतुरङ्गुलाच्छ्रितां कुर्यात् पृथुत्वेन षड़गुलाम् । श्राश्वत्थामश्वत्थसंबन्धिनीम् । शमीगी शमीगर्भसंबन्धिनीम् । तत्संरुन्धात्ताच्छब्दाम् । शमीगर्भश्च,
__"संसक्तमूला यः शम्या: स शमीगर्भ उच्यते” । इति कर्मप्रदीपोकलक्षणः । मुख्योऽयं पक्षः । असम्भवे अाश्वत्थीमेव कुश्यात् ।
"अलाभे वशमीगीदुद्धरेदविलम्बितः” । इति कर्मप्रदीपवचनात् । सोत्तरामुत्तरारणिसहितामरणिं कुर्वीत । कीदृशीं कुर्वीत ?। उच्यते । उरोः सक्थिनादीधीम्। रनि याख्याता । तत्परिमाणदीर्घाम् । चतुर्विंशाङ्गलदीधीम् । तथेति दैर्घपरामर्शः । “खादिरे बध्नाति, पालाशे बधाति, रोहितके बधाति" इतिवदमीषां परिमाणानां विकल्पो बोद्धव्यः । चतुरङ्गलोच्छितां चतुरङ्गलोच्चाम्, पृथुत्वेन विस्तारेण षड़ङ्गलां कुर्यात् । अत्र, चतुर्विंशाङ्गलादि परिमाणमङ्गठाङ्गलाभिप्रादेण। अविशेषाञ्च दयोरप्यरण्योरेतत् परिमाणं बोद्धव्यम् । तथाच कर्मप्रदीपः ।
"चतुर्विंशतिरङ्गष्ठा दैव्यं षड़पि पार्थवम् । चत्वार उच्छ्रये मानमरण्याः परिकीर्तितम्” । 552
For Private and Personal Use Only