________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गृह्यासंग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र. ]
न्तरसाधारण्यात् । श्रौताग्निसाधारण्याच्च । चत्वारः खल्वमी कालाः गृह्यकर्मणामनेरसाधारण भवन्ति । कस्मात् ? । यस्मादन्त्यसमिदाधानात् विवremerit गृहस्थो भवति । पूर्व्वं खल्वयं ब्रह्मचारी श्रासीत् । सत्यपि गार्हस्था पितरि जीवति न खातन्त्र्यं कमीदिषु पुत्राणामिष्यते । “पितरि जीवति पुत्राणामर्थाीदानविसर्गाचेपेषु न स्वातन्त्र्यम्” - इत्यादिस्मरणात् । तेषामपि ग्टह्यतया पिकृतैरेव ग्टह्यक्रर्मभिः फलवत्ताया न्याय्यत्वाच्च । श्रतएव गृहपतौ प्रेते कर्मणामग्नेराधानं ज्येष्ठस्य । जीवति ज्येष्ठे कनीयसा
मध्यविभक्तानामस्वातन्त्र्यं मुनयः स्मरन्ति । तथाच मनः ।
७
" पितेव पालयेत् पुत्रान् ज्येष्ठ भ्रातृन् यवीयसः । पुत्रवच्चापि वर्त्तेरन् ज्येष्ठे भ्रातरि धर्मतः” ।
इति । नारदः ।
इति । श्रतएवांशविभागकालोऽमीषामाधानकालः । श्रतएव मनुः । " एवं मद्दवसेयुवा पृथग्वाधर्मकाम्यया” । इति विभागे धर्मकाम्यां हेतुतया निर्दिशति । गौतमप्याह । “विभागे तु धर्भवृद्धिः" - इति । यस्मात् – परेते ग्टहपतावने राधानं ज्येष्ठस्यैव कनीयसान्तु विभागकाल एव तस्मादविभक्तानामेकमेव ग्टह्मकमादिकं विभक्तानान्तु पृथक् पृथक्, – इति मतीरः स्मरन्ति । तथाच वृहस्पतिः ।
" एकपाकेन वसतां पिढदेवदिजार्चनम् । एकं भवेदिभकानां तदेव स्याद्गृहे गृहे” ।
Com
For Private and Personal Use Only