________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्टह्यासंग्रहः।
[१ प्र.]
भिधीयते । विभागकालः पुनर्गेििभलेन नोपदिष्टः, तत् कथमाधानस्य चत्वारः काला उता इत्युच्यते ?। उच्यते । एते चत्वारः कालाः गोभिलेनोक्ताः, इत्येतदिह नोच्यते। किन्तर्हि ? । प्राचार्यरुताः,इति । गौतमः खल्वाचार्य्य:,-"भार्यादिरमियादिवा” इति सूत्रयाञ्चकार। सेोऽपि किल च्छन्दोग एव। तत्र तावत् , एक एव भा
र्यादिरमिः,-'अन्त्यां समिधमभ्याधास्यन्'-इति, 'पाणिं जिघृक्षन्'इति च कालदयाहितो भवतीत्याचार्येण दर्शितः। एकः खल्वपि दायादिरनिः,-रहपतेर्मरणं, दायविभागश्चेति कालदयाहिता भवति, -इत्याचार्यसूत्रादाचार्यपुत्रवाक्याचावगच्छामः । तस्मात्,-चत्वारः कालाः,-इति उपपन्नतरम् ।
_ "प्रेते वा ग्रहपतौ"-दूति सूत्रयता गोभिलेन ग्टहपतौ प्रेते यदाधानमुक्त, तत् ज्येष्ठस्यैव भ्रातुन कनिष्ठस्य । कथं ज्ञायते ? ।
“ज्येष्ठः कुर्यात्तथाऽऽधानं कणीयांश्च विवर्जयेत्” । इति कर्मप्रदीपवचनात्। कनिष्ठस्य तु विभागकाल एव दायादिरग्निभवति । तस्मात्,-आचार्या ज्येष्ठं प्रधानमभिप्रेत्य प्रेते वा ग्रहयतौ' -इति सूत्रयाञ्चकार, प्राचार्य्यपुत्रस्तु कनिष्ठाभिप्रायेण 'विभागः'इत्याह, इति श्लिप्यते । तदिदं गोभिलानुक्त विशेषाभिधानपरं वचनम्।
ननु, “तथा तिथिनक्षत्रपर्वसमवाये” “दर्श वा पौर्णमासे वाऽग्निसमाधानं कुर्बोत"-इति सूत्राभ्यामन्येप्याधानकाला गोभिलेनोकाः, तत् कथमाधानस्य ‘चत्वारः काला:'-इत्युच्यते। उच्यते। सत्यमुक्का अन्येष्याधानकालाः, परन्तु ग्टह्यकर्मणां योऽग्नि, स्तचैते चत्वार एव कालाः सनिष्यन्ते नेतरे। कुतः ? । इतरेषां कालानामाश्रमा
For Private and Personal Use Only