________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र.]
राधासंग्रहः।
ननु “पुरोदयात् मातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुति जुहुयात्” इति सूत्रयता गोभिलेन प्रातहोमस्य कालदयमुकम्, अनेन तु कालत्रयमुच्यते । तदनयोः पितापुत्रवचसेाविरोधः । नैषदोषः । अभिप्रायभेदात्। गोभिलः खल्वाचार्य: उदयात् पूर्वमेवानुदयकालमभिप्रयन् समयाथुषितस्थापि कालस्य तत्रैवान्तर्भावं भन्यमान: ‘उदितेऽनुदिते वा'-इति कालइयं सूत्रयाङ्कार। अनेन तु “उदिते जुहोति, अनुदिते जुहोति, समयाध्युषिते जुहोति”इति श्रुतिमनुसरता एकस्यैवोदयपूर्वकालस्यानुदयममयाधुषितत्वेन वैविध्यमभिप्रेत्य कालत्रयमुपदिष्टम् । तस्मादभिप्रायभेदात् इयोरविरोधः। अथेदानीमग्न्याधानस्य कालानाह,
श्राधानस्य तु चत्वार उक्ताः कालाः पृथक् पृथक् । अन्त्या समिदिवाहश्च विभागः परमेष्ठिनः ॥ ७६ ॥
अग्न्याधानस्य पुनः पृथक् पृथक् चत्वारः काला प्राचार्यरुक्ताः। तान् कालान् गणयति,-अन्या समिदित्यादिना । विभागो अंशविभागः ।
अत्र किञ्चिदतव्यमस्ति । तत्र तावत्,-"ब्रह्मचारी वेदमधीत्यान्यां समिधमभ्याधास्थन्” इति सूत्रेण यः प्राधानकाल उन:, स दहान्यसमिद्योगादन्या समिदिति निर्दिश्यते । “जायाया वा पाणिं जिघृक्षन्”-इति सूत्रेण य प्राधानकाल उनः, स दह विवाह इत्युच्यते । यः पुनः परमेष्ठिनोऽनराधानकाल:-"प्रेते वा ग्रहपतौ परमेष्ठिकरणम्”, इत्यनेन सूत्रेणेपदिष्टः; स दह परमेष्ठिन इत्य
For Private and Personal Use Only