________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०६
ग्टह्यासंग्रहः ।
[१ प्र.]
समयाथुषितं कालमाह,
ततः प्रभातसमये नष्टे नक्षत्रमण्डले। रविविम्ब न दृश्येत समयाध्युषितं स्मृतम् ॥ ७४ ॥
ततः-तदनन्तरं, प्रभातसमये,-भातं दीप्तिः; "भा दीप्ती"-इति स्मरणात्, रविकिरणानां प्रदीप्तिसमये इत्यर्थः । अतएव नक्षत्रमण्डले नष्टे विलीने विरले इत्येतत् । पुनर्विशिनष्टि। रविविम्ब सूर्यमण्डलं यावन्नदृश्यते, तावदित्यर्थः । स खल्वयं कालः समयाथुषितं स्मृतमाचार्यः । विधेयप्राधान्यविवक्षया नपुंसकनिर्देशः । उदयकालमाह,
रेखामाचन्तु दृश्येत रश्मिभिश्च समन्वितम । उदयं तं विजानीयाद्दोमं कुर्यादिचक्षणः॥ ७५ ॥
रश्मिभिः किरणोर्युक्त सूर्यमण्डलस्य रेखामात्रं यदा दृश्यते, तं का. लमुदयं जानीयात् । पुरस्तात्तावत् 'रविविम्बं न दृश्येत'-इत्युक्तम् । तदत्र, रविविम्बस्यैव रेखामात्रं दृश्यते, इत्यर्थमवगच्छामः । स खल्वयमुदयकालस्यारम्भः । उत्तरावधिस्त्वस्य,
"हस्तादूर्द्ध रवियर्यावगिरि हित्वा न गच्छति ।
तावद्धोमविधिः पुण्यो नान्योऽभ्युदितहामिनाम्" । इति कर्मप्रदीपे कात्यायनेनोक्तः। तस्मात् ,-'स्थण्डिल खाया एकविंशत्यङ्गलपरिमाणदर्शनात् रेखामात्रमेकविंशत्यङ्गुलमात्र रवेरुदयं दृश्येत'-इत्यसङ्गतैषा कल्पना दीक्षितस्य ।
For Private and Personal Use Only