________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5.8
एह्यासंग्रहः।
[१ प्र.]
म खल्वयं विश्वरूपो महानमिः सर्वकर्मसु प्रणीतो भवति । “ज्ञात्वा खरूपमाग्नेयम्”-दूत्यनेः खरूपं विदुषः फलवादः पुरस्तादभिहितः । नदेव खल्वग्नेः स्वरूपमनेन लोकेनौकमिति बोद्धव्यम्। रघुनन्दनस्तु, -विशेषतोनामाज्ञाने सर्वत्र विश्वरूपोनामानिर्भवति, इति कल्पयाञ्चकार। अग्निप्रणयनानन्तरं पठनीयोमन्त्रोऽयम्, इति चाचचक्षे॥
न वस्त्रेण धमेदग्निं न सूर्पण न पाणिना। मुखेनोपधमेदग्निं मुखाड्येषोऽध्यजायत ॥ ७० ॥
वस्त्रेण सूर्पण पाणिना वा, अग्निं न धमेत् नोद्दीपयेत् । किन्तु मुखेनानिमुपधमेत् । तत्र हेतुः । हि यस्मादेषोऽमिः प्रजापतेमुखादध्यजायत उत्पन्नः । मुखादुपजातस्य मुखेनापधमनं युक्तमिति भावः । मुखादुत्पत्तिश्चाग्नेस्ताण्ड्य ब्राह्मणे समाम्नायते । "सोऽकामयतः-यजं सृजेयेति, स मुखत एव त्रिवृतमसृजत, तं गायत्रीच्छन्दोऽन्वसृज्यताग्निर्देवता ब्राह्मणो मनुथ्यो वसन्त ऋतुस्तस्मात् त्रिवत् स्तोमानां मुखं, गायत्री छन्दसा, मग्निर्देवतानां, ब्राह्मणे मनुष्याणां, वसन्त ऋतूनां, तस्माद् ब्राह्मणे मुखेन वीर्य करोति, मुखतो हि सृष्टः” इति । "मुखादग्निश्च वायुश्च”इति च पुरुषसूक्ते । रघुनन्दनस्त्वेतदजानानः-'मुखात् मुखपायमन्त्रात्, इति यदृच्छयैव कन्पयाञ्चकार । तदनादरणीयम् ।
तदिदं मुखेनामेरुपधमनं लौकिकाग्निव्यतिरिक्तविषयम् । तथाच, कर्मप्रदीपः ।
For Private and Personal Use Only