________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १ प्र. ]
गृह्यासंग्रहः ।
अविच्छिन्नम्, अकृशं समिद्धम्, बहु - नाल्पं यथा भवति, तथा
श्रग्निप्रणयनं कुर्य्यात् ॥
शुभं पाचन्तु कर्त्तव्यं यजमान - सुखावहम् ॥ ६७ ॥
शुभं पात्रमित्यादरार्थं पुनरुपादानम् ॥
शुभं पात्रमाह
८०३
शुभं पाचन्तु कास्यः स्यात्तेनाग्निं प्रणयेदुधः । तस्याभावे शरावेण नवेनाभिमुखच्च तम् ॥ ६८ ॥
तस्य कांस्यस्याभावे नवेन शरावेणाग्निं प्रणयेदिति गतेन संबन्धः । श्रभिमुखं यथा भवति, तथा 'तम्' श्रग्निं प्रणयेदिति कल्पइयेऽपि संबध्यते । यश्च,
“शरावे भिन्नपात्रे वा कपाले बाल्मुकेऽपि वा । नाग्निप्रणयनं कुर्य्याद् व्याधिहानिभयावहम् ” |
इति शरावनिषेधः । स पुरातनशरावविषयः, कांस्यपाचमद्भावविषयः, गोभिलीयव्यतिरिक्तविषयो वा ॥
श्रग्नेः स्वरूपमाह,—
सर्व्वतः पाणिपादान्तः सर्व्वताऽक्षिशिरोमुखः । विश्वरूपा महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥ ६६ ॥
अन्तशब्दः स्वरूपार्थः । सर्व्वतः पाणिपादस्वरूपं यस्य स तथा । सर्व्वतेाऽचीणि चक्षूंषि, शिरांसि मुखानि च यस्य, म तथेोक्तः ।
512
For Private and Personal Use Only