________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८०२
ह्यासंग्रहः।
[१ प्र.]
अथेदानी "भूर्भुवः स्वरित्यभिमुखमग्निं प्रणयन्ति" इति सूत्रोकमग्निप्रणयनं व्याकुरुते सार्द्धशतुर्भिः,
कपालैभिन्नपावा नत्वामैगीमयेन वा ॥६४ ॥ अभिप्रणयनं काय्य यजमान-भयावहम्।
कपालैर्घटखण्डै:
"कपालं मृण्मयं पात्रं चक्राघटितमुच्यते” । इत्युक्तलक्षणेवा । भिन्नपात्र:-भद्मपात्री । श्रामेरपक्वपात्री । (तुशब्दो वाशब्दार्थः)। गोमयेन वा, अग्निप्रणयनं न कर्त्तव्यम् । कपालादिपात्रैः कृतं खल्वनिप्रणयनं यजमानस्य भयमावहति ॥
अल्पः प्रणीता विच्छिन्नोऽसमिद्धश्चापरिश्रुतः॥६५॥ त्वरया पुनरानीता यजमान-भयावहः ।
अल्पः । विच्छिन्नोऽन्तराच्छेदसहितः-विक्षिप्त इति यावत् । श्रममिद्धोऽप्रदीप्तः । अपरिश्रुतः शास्त्रोक्ततिकर्त्तव्यतारहितः । श्रुतं शास्त्रमिति ह्यनर्थान्तरम्। त्वरया चानीतः प्रणीतोऽमिर्यजमानस्य भयमावहति । पुनः शब्दश्चशब्दार्थः ॥ यस्मादेवम्,--
तस्माच्छभेन पावेण अविच्छिन्नाकृशं बह ॥ ६६ ॥ अग्निप्रणयनं कुर्याद् यजमान-सुखावहम् ।
For Private and Personal Use Only